पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ ७ ९ अष्टप्ततितमः सर्गः १०६३ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् । तत्राहं कृतवान् राज्यं धयं च सुसमाहितः एवं वर्षसहस्राणि ममातीतानि सुत्रत । राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः ॥ सोऽहं निमित्ते करिमश्चितिज्ञातायुर्विजोत्तम । कालधर्म द्वदि न्यस्य ततो वनमुपागमम् ॥ सोऽहं वनमिदं दुर्ग मृगपक्षिविवर्जितम् । तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे भ्रातरं सुरथं राज्ये झभिषिच्य महीपतिम् । इदं सरः समासाथ तपस्तसं मया चिरम् ॥ सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने । तप्त्या सुदुष्करं प्राप्ता ब्रह्मलोकमनुत्तमम् || तस्य मे स्वर्गभूनस्य क्षुत्पिपासे द्विजोत्तम । बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ।। गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह । भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ।। १२ कस्याय कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् । आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥१३ पितामहस्तु मामाह तबाहारः सुदेवज | स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ १४ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् । अनुप्तं रोहने श्वेत न कदाचिन्महामते ॥ १५ तृप्तिर्न तेऽस्ति सूक्ष्मापि बने सत्त्वनिषेविते । पुरा न्वां भिक्षमाणाय भिक्षा वै यतये नृप ॥ १६ न हि दत्ता त्वयेन्द्राम यस्मादतिथयेऽपि वै । दत्तं न तेऽस्ति सूक्ष्मोऽपि तप एव निषेवसे ॥१७ तेन स्वर्गगतो वत्स बाध्यसे क्षुपिपासया । स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।। भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यनि । यदा तु तद्नं श्वेत अगस्त्यः सुमहानुषिः ।। आगमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्यसे । स हि तारयितुं सौम्य शक्तः सुरगणानपि ।। २० किं पुनस्वां महाबाहो क्षुत्पिपासावशं गतम् । सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ॥ २१ आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम । बहून् वर्षगणान् ब्रह्मन् भुज्यमानमिदं मया ।। २२ क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा । तस्य मे कृ'भूतस्य कृच्छ्रादस्माद्विमोक्षय ॥ २३ अन्येषां न गतित्रि कुम्भयोनिमृत द्विजम् । इदमाभरणं सौम्य तारणार्थ द्विजोत्तम || प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि । इदं तावत् सुवर्ण च धनं वस्त्राणि च द्विज ॥ २५ भक्ष्यं भोज्यं च ब्राषै ददाम्याभरणानि च । सर्वान् कामान् प्रयच्छामि भोगांश्च मुनिपुङ्गव ।।२६ तारणे भगवन् मह्यं प्रसादं कर्तुमर्हसि । तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ॥ २७ तारणायोपजग्राह तदाभरणमुत्तमम् | मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।। २८ मानुषः पूर्वको देहो राजर्षेधिननाश ह । प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ।। २९. तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् । तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।। ३० तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाब्धे चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे आभरणागमो नाम अष्टसप्ततितमः सर्गः १. परमे वीर वि. इदम सि. नास्ति,