पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यशीतितमः सर्गः १०६७ ९ अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् । पावनः सर्वभूतानां त्वमेव रघुनन्दन । मुहूर्तमापि राम त्वां ये च पश्यन्ति केचन । पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदेवतैः' ॥१० ये च त्वां घोरचक्षुभिः पश्यन्ति प्राणिनो भुवि । हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ईशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् । भुवि त्वां कथयन्तोऽपि सिद्धिमेष्यन्ति राधव ॥१२ गच्छ चारिष्टमव्ययः पन्थानमकुतोभयम् । प्रशाधि राज्यं धर्मेण गतिहि जगतो भवान् ॥ १३ पवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृर्षि सत्यशीलिनम् ॥ १४ अभिवाद्य मुनिश्रेष्ठं तांश्च सास्तपोधनान् । अध्यारोहत्तव्यमा पुष्पकं हेमभूषितम् ॥ १५ तं प्रयान्वं मुनिगगा पाशीर्वादैः समन्ततः । अपूजयन् महेन्द्राभं सहस्राक्षामिवामराः ॥ १६ खस्थः स दहशे रामः पुष्पके हेमभूषिते । शशी मेघसमीपस्थो यथा जलधरागमे ।। ततोऽदिवसे प्राप्ते पूज्यमानस्ततम्ततः । अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत्॥१८ ततो विसृज्य रुचिरं पुष्पके कामगामि तत् । विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः।। कक्ष्यान्तरविनिक्षिप्तं द्वा:स्थं रामोऽब्रवीद्वचः । लक्ष्मणं भरतं चैव गत्वा तो लघुविक्रमौ ॥२० ममागमनमाख्याय शन्दापयत मा चिरम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहनिकायां संहितायाम् उत्तरकाण्डे रामनिवर्तनं नाम द्वयशीतितमः सर्गः ३ त्र्यशीतितमः सर्गः राजसूयाजिहीर्षा तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः । द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ दृष्ट्वा तु राघवः प्राप्तौ प्रियो भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥ अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः॥ ५ इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुट्टनेन सुयझेन वरुणत्वमुपागमत् ।। सोमश्व राजसूयेन इष्टवा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्ति स्थानं च शाश्वतम् ।। अस्मिनहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ वक्तुमर्हथः ॥ ८ श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ स्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा । प्रतिष्ठिता महाबाहो यशश्वामितविक्रम ॥ १० महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ६ ७ १. त्रिदिवेश्वरैः ति. २. पुण्यशालिनम् प्र. १. धर्मप्रवचन व सि. ४. कई प.