पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशीतितमः सर्गः १०६९ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभूति लोकानां नाथत्वमुपलब्धवान् ॥ स त्वं प्रसाद देवानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्व स्यात् प्रशान्तमरुजं जगत्।। इमे हि सर्वे विष्णो त्वां निरीक्षन्ते निवौकसः । वृत्रधातेन महता त्वेषां सायं कुरुष्व ह ॥ त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्मवान् ॥१८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे वृत्रतपोयणेन नाम चतुरशीतितमः सर्गः १ २ ७ ८ ९ पञ्चाशीतितमः सर्गः वृत्रवधः लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुनतः ॥ राघवेणैवमुक्तातु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुब्रतः ।। सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम । विष्णुदेवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ पूर्व सौहृदयद्धोऽस्मि त्रस्य तु महात्मनः । तेन युष्मप्रियायं हि नाहं हन्मि महासुरम् ॥४ अवश्यं करणीयं च भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ त्रिधाभूतं करिष्यामि यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वषिष्यति न संशयः ॥ ६ एकांशो वासवं यातु द्वितीयो अमेव तु । तृतीयो भूतलं शस्तदा वृत्रं वधिष्यति ॥ तथा अवति देवशे देवा वाक्यमश्राब्रुवन् । एवमेतन्न संदेहो यथा वदमि दैत्यहम् ।। भद्रं तेऽस्तु गमिष्यामो घृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदरण्यमुपाक्रमन् यत्र यत्रो महासुरः ।। तेऽपश्यंस्तेजसा भूनं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लाकास्त्रीनिर्दहन्तमिवाम्बरम् ॥ ११ दृष्ट्वैव चासुर श्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात् पराजयः ॥ १२ तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः । वर्ष प्रगृह्य पाणिभ्यां प्राहिणोत्रमूर्धनि ॥ १३ कालानिनेव घोरण तप्तेनेव महार्षिषा । पतता वृत्रशिरसा जगत् त्रासमुपागमत् ।। १४ असंभाव्य वधं तस्य वृत्रस्य विबुधाधिपः । चिम्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ तमिन्द्रं प्रमहत्त्याशु गच्छन्तमनुगच्छति । अपतञ्चास्य गात्रेषु तमिन्द्रं दुःग्यमाविशत् ॥ १६ हतारयः प्रनष्टेन्द्रा देवाः सामिपुरोगमाः । विष्णु विभुवनेशानं मुहुर्मुहुरपूजयन् ।। त्वं गतिः परमेशान पूर्वजो जगतः पिना । राक्षार्थ सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ हतश्चायं त्वया पुत्रो प्रमहत्त्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥१९ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ १० १. लोकानां कुरुप सुसमाहितः ति. २. सहस्राक्षो वषिष्यति. ति.