पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे अमोघदर्शने देवि भज सौम्येन चक्षुषा । हृद्तं तस्य राजर्षेर्विशाय हरसंनिधौ ॥ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता । अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ॥ २४ तस्मादधं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि । तद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ॥ २५ संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् । यदि देवि प्रसमा मे रूपेणाप्रतिमा भुवि ॥ २६ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः । ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना॥२७ प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति । राजन् पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ॥ २८ स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् । एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ॥२९ त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे 'इलस्त्रीत्वप्राप्सिर्नाम सप्ताशीतितमः सर्गः १ अष्टाशीतितमः सर्गः बुधसमागमः तां कथामिलसंबद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं सस्य भावस्य तदा पप्रच्छतुः पुनः।।२ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः। पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ तयोस्तद्धाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ तमेव प्रथमं मास स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च' पूर्व पदानुगाः ।। ५ तत् काननं विगायाशु विजहे लोकसुन्दरी । द्रुमगुल्मलताकीर्ण पदयां पादलक्षणा || ६ वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन् रेमे इला तदा॥७ अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ददर्श सा त्विला तस्मिन् बुधं सोमसुतं ततः । ज्वलन्तं स्वेन वपुषा पूर्ण सोममिवोदितम् ॥९ तपन्तं च तपस्तीब्रमम्भोमध्ये दुरासदम् | यशस्करं कामकर तारुण्ये पर्यवस्थितम् ।। सा तं जलाशयं सर्व क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदात्मानं संचचाल ताम्मसि ॥ १२ इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिको शुभाम्। चिन्तां समभ्यतिकामत का त्वियं देवताधिका ८ १० १. वेऽस्व ति. २. पूर्ण मोमं च. प्र. ३. कारण्ये सि.