पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे ७ ८ १६ लोकापवादो बलवान् येन त्यक्ता हि मैथिली । सेयं लोकभयाद्ब्रह्मनपापेत्यभिजानता ॥ परित्यक्ता मया सीता तद्भवान् क्षन्तुमर्हति । जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ॥ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे । अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः सीतायाः शपथे तस्मिन मेहेन्द्राधा महौजसः । पितामहं पुरस्कृत्य सर्व एव समागताः ।। आदित्या वसवो रुद्रा अंश्विनौ समरुद्गणाः । गन्धर्वाप्सरसश्चैव सर्व एव समागताः। साध्याश्च विश्वे देवाश्च सर्वे च परमर्षयः । नागाः सुपर्णाः सिद्धाश्च ते सर्वे टमानसाः॥ ९ सीताशपथसंभ्रान्ताः सर्व एव समागताः । दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।। १० प्रत्ययो मे सुरश्रेष्ठा ऋषिवाक्यैरकल्मषैः । शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः । तज्जनौघं सुरश्रेष्ठो ह्रादयामास सर्वतः १२ तदद्भुतमिवाचिन्स्यं निरक्षन्त समागताः । मानवाः सर्वराष्टेभ्यः पूर्व कृतयुगे यथा ॥ १३ सर्वान समागतान् दृष्ट्वा सीता काषायवासिनी । अनवीन प्राञ्जलिवाक्यमधोदृष्टिरवाइमुग्वी ॥१४ यथाहं राघवादन्यं मनसापि न चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति ।। मनमा कर्मणा वाचा यथा गमं समर्चये। तथा मे माधवी देवी विवरं दातुमर्हति ।। यथैतत् सत्यमुक्तं मे वेद्मि रामात् परं न च । तथा मे माधवी देवी विवरं दातुमर्हति ।। तथा अपन्त्यां वैदेह्यां प्रादुरासीत्तदमृतम । भूतलादुत्थितं दिव्यं सिहासनमनुत्तमम् ॥ १८ ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितः ।। १९ तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम । स्वागतेनाभिनन्द्यैनामासने चोपवेशयन् ।। नामासनगतां दृष्दा प्रविशन्ती ग्मातलम् । पुष्पवृष्टिविच्छिन्ना दिव्या सीनामवाकिरत ।। २१ साधुकारश्च सुमहान् देवानां सहसोत्थितः । साधु साध्विति वे सीने यस्यास्ने शीलमीदृशम ॥ २२ एवं बहुविधा वाचो ह्यन्तरिक्षगनाः सुराः । व्याजह्रुर्दृष्टमनसो दृष्टा सीताप्रवेशनम् ।। २३ यज्ञवाटगताश्चापि मुनयः सर्व एव ते । राजानश्च नरव्याघ्रा विस्मयानोपरेमिरे ।। अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः । दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ केचिद्विनेदुः संहष्टाः केचिद्धयानपरायणाः । केचिद्रामं निरीक्षन्ते केचित् सीतामचेतनाः ॥ २६ सीताप्रवेशनं दृष्ट्वा तेषामासीन् समागमः । तन्मुहूर्तमिवात्यर्थ सम संमोहितं जगत् ।। इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् उत्तरकाण्डे सीतारसातलप्रयेशो नाम सप्तनवतितमः सर्ग: २० २५ २७ ति. ३ देवाः सर्वते ति. १. सर्व एव समागताः २. विश्वेदेवाः ति.