पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे ६ ८ ९ १० जयस्व राम धर्मेण उभौ लोको महायुते । दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः॥ सद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच हा प्रवेश्यता मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् । ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा । ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।। तस्मै रामो महानेजाः पूजामयपुरोगमाम् । ददौ फुझलमध्यग्रं प्रप्टुमेवोपचक्रमे ।। पृष्टश्च कुशलं तन रामेण वदतां वरः । आसने काश्चने दिव्ये निपसाद महायशाः ।। तमुवाच ततो रामः स्वागतं ते महामुने । प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ।। चोदितो राजसिंहेन मुनिर्वाक्यमभाषत । द्वन्द्वमेतत् प्रवक्तव्यं हितं वै यद्यपेक्षस ।। १२ यः शृणोति निरीक्षेद्वा स यध्या भविता तव । भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे । स तथेति प्रतिक्षाय रामो लक्ष्मणमब्रवीत् । द्वारि तिष्ट महाबाहो प्रतिष्ठारं विसर्जय ॥ स मे वध्यः खलु भवत् कथा द्वन्द्वसमीरिताम् । ऋर्मम च सौमित्रं पश्येद्वा शृणुयाञ्च यः ॥ २५ ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम । तमुवाच मुने वाक्यं कथयस्वति राघवः ॥ १६ यत्ते मनीषितं वाक्यं येन बासि समाहितः । कथयस्त्राविशङ्कस्त्वं ममापि हृदि वर्तते ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चतुर्विंशतिसहस्रिकायां सहितायाम् उत्तरकाण्डे कालागमनं नाम त्र्युत्तरशततमः सर्गः चतुरुत्तरशततमः सर्गः पितामहवाक्यकथनम् १ ४ शृणु राजन् महासत्त्व यदर्थमहमागतः। पितामहेन देवेन प्रेधितोऽस्मि महावल ।। तवाहं पूर्वके भावं पुत्रः परपुरंजय । मायामभावितो वीर कालः मर्वममाहरः ।। पितामहश्च भगवानाह लोकतिः प्रभुः । ममयस्तं कृतः सौम्य स्वाल्लोकान परिरक्षितुम ।। ३ संक्षिप्य हि पुरा लोकान मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं पूर्वमनीजनः ।। भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्या त्वं द्वौ च सत्त्वौ महाबलौ । मधुं च कैटभं चैत्र ययोरस्थिचयवृता । इयं पर्वतसंबाधा मेदिनी चाभवत्तदा ।। पद्मे दिव्येऽर्कमकाशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म माय सर्व निवशितम् ।। सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम । रक्षां विधत्स्व भूतेषु मम तेजस्को भवान् ॥ ८ ततस्त्वमपि दुर्धर्षात्तस्माद्भावात सनातनात् । रक्षार्थ सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। अदित्यां वीर्यवान पुत्रो भ्रातृणां वीर्यवर्धनः । समुत्पनेषु कृत्येषु तेषां साह्याय कल्पसे । स त्वं वित्रास्यमानामु प्रजामु जगतां वर । रावणस्य वधाकाली मानुषेषु मनोऽदधाः ।। ११ ६ ७ ९ १. चक्षसे ति. २. मडी च,