पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

पञ्चचत्वारिंशः सर्गः अमृतोत्पत्तिः

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ।। १ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया । गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ।। २ क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः । इमां चिन्तयतः सर्वां निखिलेन कथां तव ।। ३ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा । जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।। ४ ततः प्रभाते विमले विश्वामित्रं महामुनिम् । उवाच राघवो वाक्यं कृताह्निकमरिंदमः ।। ५ गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् । तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।। ६ नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् । भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ।। ७ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । संतारं कारयामास सर्षिसङ्घः सराघवः ।। ८ उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा । गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।। ९ ततो मुनिवरस्तूर्णं जगाम सहराघवः । विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ १० अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् । पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।। ११ कतरो राजवंशोऽयं विशालायां महामुने । श्रोतुमिच्छामि भद्रं ते परं कौतुहलं हि मे ।। १२ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः । आख्यातुं तत् समारेभे विशालस्य पुरातनम् ।। १३ श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम् । अस्मिन् देशे तु यद्वृत्तं शृणु तत्त्वेन राघव ।। १४ पूर्व कृतयुगे राम दितेः पुत्रा महाबलाः । अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः ।। १५ ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम् । अमरा अजराश्चैव कथं स्याम निरामयाः ।। १६ तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम । क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ।। १७ ततो निश्चित्य मथनं योक्त्रंं कृत्वा च वासुकिम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ।। १८