पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चोत्तरशततमः सर्गः १०८९ १२ १३ दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियति स्वयमेवात्मना पुरा । स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम ।। यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा धीर भद्रं त एवमाह पितामहः ।। अथवा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राधवः प्रहसन् वाक्यं सर्वसंहारमब्रवीत् ।। श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसंभवा ।। त्रयाणामपि लोकानां कार्यार्थ मम संभवः । भद्रं तेऽस्तु गमिष्यामि यत गवाहमागतः ।। हृद्तो याम संप्रामो न मे नत्र विचारणा ! मया हि मर्वकृत्येपु देवानां वशवर्तिना। स्थातव्यं सर्वसंहार यथा हाह पितामहः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे पितामहवाक्यकथनं नाम चतुरुत्तरशततमः सर्गः १५ १६ १७ १८ १९ १ २ ३ ५ पश्चोत्तरशततमः सर्गः दुर्वासोऽभिगमः तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाक्षी राजद्वारमुपागमत् ॥ सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ।। मुनन्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा । अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ किं कार्य बेहि भगवन को वार्थः किं करोम्यहम् । व्यग्रो हि राघवो ब्रह्मन मुहूर्त प्रतिपाल्यसाम ।। तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुपीकृतः । उवाच लक्ष्मणं वाक्यं निर्दहन्निक चक्षुषा ।। अस्मिन् क्षण मां सौमित्र रामाय प्रतिवेदये । अस्मिन् क्षणे मां सौमित्र न निवेदयसे यदि ॥ ६ विपयं त्वां पुरं चैव शपिप्ये राघवं तथा । भरतं चैव मौमित्र युष्माकं या च सन्ततिः ।। न हि शक्ष्याम्यहं भूयो मन्युं धायितुं हदि । तच्छुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।। चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ! एकस्य मरणं मेऽस्तु माभूत् सर्वविनाशनम् ।। ९ इति बुद्धया विनिश्चित्य राघवाय न्यवेदयन् । लक्ष्मणस्य वचः शुवा रामः कालं विसृज्य च निःमृत्य त्वरितं राजा अत्रे पुत्रं दार्श ह । सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।। ११ किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत । तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ॥ १२ प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल । अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।। १३ सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ । तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।। भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् । स तु भुक्त्वा मुनिश्रेष्ठस्तदनममृतोपमम् ।। ७ ८ १. वशवर्तिना नास्ति। ३. इदमधं ति. ४. समाप्तिममराघव ति. २. प्रतिपादन म. च. 137