पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवोत्तरशततमः सर्गः २८ राक्षसेन्द्र महावीर्य लकास्थः स्वं धरिष्यसि । यावश्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह । शासितस्त्वं सग्वित्वेन कार्य ते मम शासनम् ।। २९ प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि । किंचान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ आराधय 'जगन्नाथमिस्वाकुफुलदैवतम् । आराधनीयमनिशं सर्वैर्देवैः सवासवैः ॥ ३१ तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुम्मरन । ३२ तमेवमुक्त्वा काकुत्स्थो हनुमन्तमथाब्रवीत । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय' ।। ३३ मत्कथाः प्रचरिष्यन्ति यावलोके हरीश्वर । नावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ३४ एषमुक्तस्तु हनुमान् राघवेण महान्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ३५ यावनव कथा लोके विचरिष्यति पावनी । तावन स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ३६ जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्ममुनं तथा । मैन्दं च विदं चैव पञ्च जाम्बवता सह ।। ३७ यावत् कलिश्च मंप्राप्तस्तावजीवन सर्वदा । तानेवमुक्त्वा काकुलथः सर्वास्तानृक्षवानरान् ॥ ३८ उवाच बाढं गच्छध्वं मया साध यथेरिसतम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां मंहितायाम उत्तरकाण्डे विभीषणाद्यदिशो नाम अष्टोत्तरशततमः सर्गः १ २ ३ ४ नवोत्तरशतनमः सर्गः श्रीराममहाप्रस्थानम् प्रभातायां तु शर्वर्या पृथुवभा महायशाः । रामः कमलपत्राक्षः पुरोधसमशानवीत् ।। अग्निहोत्रं बजत्व दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे। ततो वसिष्ठस्तेजस्वी सर्व निरवशेषतः । चकार विधिवद्धर्म माहाप्रास्थानिक विधिम् ॥ ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन् परम् । कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। अव्याहरन् कचित्किचिनिश्चेष्टो निःसुखः पथि । निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। रामस्य दक्षिणे पार्श्व सपद्मा श्रीरुपाश्रिता । सव्ये तु हीमहादेवी व्यवसायस्तथाप्रतः ।। शरा नानाविधाश्चापि धनुरायतमुत्तमम् । तथायुधानि ते सर्वे ययुः पुरुषविग्रहाः॥ वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी । ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः॥ ऋषयश्च महात्मानः सर्व एव महीसुराः । अन्वगच्छन् महात्मानं स्वर्गद्वारमपावृतम् ॥ तं यान्तमनुगच्छन्ति हन्तःपुरचराः खियः । सवृद्धबालदासीकाः सवर्षवरैकिङ्कराः॥ सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ । रामं गतिमुपागम्य सामिहोत्रमनुव्रतः।। ते च सर्वे महात्मानः साग्निहोत्राः समागताः । सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ६ ७ ८ ९ १. १२ 1. मीरानाथ इति सम्प्रदासियोऽर्थः। १. था कृथाः ति. २. यथोदितं ति. १. सरयूं ति. वर्गवर च. प्र.