पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः । सर्वे सहानुगा राममन्वगच्छन् प्रष्टवत् ॥ १३ ततः सर्वाः प्रकृवयो हष्टपुष्टजनावृताः । गच्छन्तमन्धगच्छंतं राघवं गुणरञ्जिताः। १४ वतः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः । राघवस्यानुगाः सर्वे सृष्टा विगतकल्मषाः ॥ स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः। रद किलकिलाशब्दैः सर्व राममनुव्रतम् ।। १६ न तत्र कश्चिद्दीनो वा ब्रीडितो वापि दुःखितः । कृष्ट प्रमुदितं सर्व बभूव परमाद्भुतम् ।। द्रष्टुकामोऽथ निर्यान्तं रामं जानपदो जनः । यः प्राप्तः सोऽपि दृष्दैव स्वर्गायानुगतो मुदा ॥ १८ ऋक्षवानररक्षांसि जनाश्च पुरवासिनः । आगच्छन् परया भक्त्या पृष्ठतः सुसमाहिताः । १९ यानि भूतानि नगरेऽप्यन्तर्धानगतानि च । राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च । सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। नोच्छुसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते । तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे श्रीराममहाप्रस्थानं नाम नयोत्तरशततमः सर्गः दशोत्तरशततमः सर्गः सशानुगश्रीरामस्वर्गारोहः अध्ययोजनं गत्वा नदी पश्चान्मुखाश्रिताम् । सरयूं पुण्यलिलां ददर्श रघुनन्दनः ॥ तां नदीमाकुलावतां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामरतं देशं रघुनन्दनः ।। अथ तस्मिन् मुहूर्त तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवषिभिश्च महात्मभिः ।। आययौ यत्र काकुत्स्थः स्वगीय समुपस्थितः । विमानशतकोटीभिर्दिच्याभिरभिसंवृतः।। दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयंप्रभैः खतेजोभिः स्वभिः पुण्यकर्मभिः ।। पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्का महौघवन् ।। तस्मिंस्तूर्यशतैः कीर्ण गन्धर्वाप्सरसंकुले । सरयूसलिले ग़मः पद्यां समुपचक्रमे ।। तवः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राधव ॥ भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश खकाम् ॥ वैष्णवी तां महातेजस्तद्वाकाशं सनातनम् । त्वं हि लोकगतिर्देव न त्वां केचित् प्रजानते ॥ ऋते मायां विशालाक्षी तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ।। ११ यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।। १२ विवेश वैष्णवं तेजः सशरीरः सहानुजः । ततो विष्णुमय देवं पूजयन्ति स्म देवताः ॥ १३ साध्या मरुद्गणाश्चैव सेन्द्राः सामिपुरोगमाः । ये च.दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः॥१४ बाम्धवाः ति. मातृभिः दति बहुवचनेन बामणोऽपि तर गत इति तर्षियाख्या । पुरोगतस्व, सहयाविनः, ३, चाजरं तवा वि. पसाइमिम्बतब सामान्येनापतनप्रवेश इति तकन्याख्या। १ २ ३ ४ ५ ६ ८ 1. २. अनः ति.