पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् । निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरंदरः।। ३२ शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ इत्यार्षेश्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे अमृतोत्पत्तिर्नाम पञ्चचत्वारिंशः सर्गः

षट्चत्वारिंशः सर्गः दितिगर्भभेदः

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता । मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ।। १ हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः । शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ।। २ साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि । बलवन्तं महेष्वासं स्थितिज्ञं समदर्शिनम् ।। ३ ईदृशं शक्रहन्तारं त्वमनुज्ञातुमर्हसि । तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ॥ ४ प्रत्युवाच महातेजा दितिं परमदुःखिताम् । एवं भवतु भद्रं ते शुचिर्भव तपोधने ।। ५ जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे। पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।। ६ पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि । एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।। ७ समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ । गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ॥ ८ कुशप्लवं समासाद्य तपस्तेपे सुदारुणम् । तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह ॥ ९ सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा । अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।। १० न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् । गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा ।। ११ शक्रः सर्वेषु कालेषु दितिं परिचचार ह । पूर्णे वर्षसहस्रे तु दशोने रघुनन्दन ।। १२ दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत् । तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ।। १३ अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः । तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।। १४ त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः । याचितेन सुरश्रेष्ठ तव पित्रा महात्मना ।। १५ वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति । एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ।। १६ निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः । दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ॥ १७ शिरःस्थाने कृतौ पादौ जहास च मुमोद च । तस्याः शरीरविवरं विवेश च पुरंदरः ।। १८ गर्भ च सप्तधा राम बिभेद परमात्मवान् । भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।। १९ रुरोद सुस्वरं राम ततो दितिरयुध्यत । मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।। २०