पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनपश्चाशः सर्गः २५ २६ २७ २८ २९ गृहीतसमिधं तत्र सकुशं मुनिपुंगवम् । दृष्टा सुरपतिकस्तो विवर्णवदनोऽभवत् ॥ अथ दृष्ट्रा सहस्राक्षं मुनिवेषधरं मुनिः । दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् ॥ मम रूपं समास्थाय कृतवानसि दुर्मते । अकृर्तव्यमिदं तस्माद्विफलस्त्वं भविष्याम ।। गौतमेनैवमुक्तस्य सरोषेण महात्मना । पेततुर्वषणी भूमौ सहस्राक्षस्य तत्क्षणात ।। तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान । इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ वायुभक्षा निगहाग तम्यन्ती भस्मयायिनी । अश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ।। यदा चैतद्वनं घोरं रामो दशरथात्मजः । आगमिष्यति दुर्धर्पस्तदा पृता भविष्यसि ।। नस्यातिथ्येन दुर्वने लोभमोहविवर्जिता । मत्मकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम । इममाश्रममुस्मृज्य सिद्धचारणसेविते ।। हिमच्छिखरे रम्य तपरतेपे महातपाः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसाहस्रिकायां संहितायां बालकाण्दे शक्राहल्याशापी नाम अष्टचत्वारिंशः सर्गः ३० ३१ ३२ ३३ २ ३ ५ एकोनपञ्चाशः सर्गः अहल्याशापमोक्षः अफलस्तु ननः शक्रो देवानग्निपुरोगमान् । अब्रवीत् त्रस्तवदनः सर्पिसंघान् सचारणान् ।। कुर्वता तपसो विघ्नं गौतमम्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ।। अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता । शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ तरमान मुग्वगः म मर्पिमङ्घाः मचारणाः । सुरमाह्यकरं सर्वे सफलं कर्तुमर्हथ ।। शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ।। पुराविचार्य मोहेन मुनिपत्नीं शतक्रतुः । धर्षयित्वा मुनेः शापात्तत्रैव विफलीकृतः ।। इदानीं कुष्यते देवान् देवराजः पुरंदरैः । अयं मेपः सवृपणः शक्रो वृषणः कृतः॥ मेषस्य वृपणो गृह्य शक्रायाशु प्रयच्छत । अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति । भवतां हर्षणार्थ च य च दास्यन्ति मानवाः । अभयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ।। अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः । उत्पाट्य मेपवृषणौ सहस्राक्षे न्यवेशयन ।। तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः । अफलान भुञ्जते मेषान् फलेन्तेषामयोजयन ।। इन्द्रस्तु मेपवृषणस्तदाप्रभृति राघव । गौतमस्य प्रभावेण तपसश्च महात्मनः॥ ६ ७ ८ ९ १० ११ १२ १. पुरेलादिः पुरंदर इस्वन्तो माग: ग. भ. नास्ति। २. इदमर्धम् क. नास्ति ।