पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपञ्चाशः सर्गः १२ १४ १५ १६ १८ १९ पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः। आसनेषु यथान्यायमुपविष्टान् समन्ततः ॥ दृष्टा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् । अद्य यज्ञसमृद्धिर्मे सफला देवतैः कृता । अद्य यज्ञफलं प्राप्तं भगवदर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ॥ यझोपसदनं ब्रह्मन प्राप्तोऽसि मुनिभिः सह । द्वादशाहं तु ब्रह्मर्ष 'शेषमाहुर्मनीषिणः॥ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक । इत्युक्त्वा मुनिशार्दूलं प्रहप्रवदनस्तदा ॥ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः । इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ । गजसिंहगती वीरौ शार्दूलवृषभोपमौ । पद्मपत्रविशालाक्षी खड्गतॄणीधनुर्धरौ ।। अश्विनाविक रूपेण समुपस्थितयौवनौ । यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ ॥ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने । वरायुधधरौ वीरौ कस्य पुत्रौ महामुने । भूषयन्ताविमं देशं चन्द्रमूर्यविधाम्बरम् । परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितः ॥ काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः । तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।। न्यवेदयदमेयात्मा" पुत्री दशरथस्य तौ । सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् । अहल्यादर्शनं चैव गौतमेन समागमम् ।। महाधनुपि जिज्ञासां कर्तुमागमनं तथा । एतत् सर्व महातेजा जनक य महात्मने ।। निवेद्य विररामाथ विश्वामित्रो महामुनिः।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायां बालकाण्डे जनकसमागमो नाम पञ्चाशः सर्गः २० २१ २२ २३ २४ एकपञ्चाशः सर्गः ४. विश्वामित्रवृत्तम् तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । इष्टरोमा महातेजाः शतानन्दो महातपाः ।। १ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसंदर्शनादेव परं विस्मयमागतः ।। २ स तो निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ । शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ १. दीक्षाम् ति. अस्य पादस्य स्थान-कुमाराव पाच- अस्यानन्तरम् --पुण्डरीकविशालाक्षो वरा- को-इति ग. । अस्यानन्तरम्--रूपौदार्यगुणैः पुसा युपधरावुमी । बद्धगोपाद्गुलित्राणी खड्गवन्ती महा- दृष्टिचित्तापहारको । प्रकाश्य कुलमस्माकं मामुर्तुमि- खुती ॥--इति ग. । इदमेव पथ घटित रित्यस्या- हागती ||--इति ग. छ. । कस्य पुत्री मुनिमय नन्तरम् क. दृश्यते। श्रोतुमिमि तस्यत:--इति छ. अधिकम् । ३. अस्थानन्तरम् ---किमयं च नरभेष्ठ संप्राप्ती महात्मानौ श. अ. दुर्गमे पथि । प्रकाश्य कुलमस्माकं मामुदतुमिहागतौ ।।- ६. आरोपणम् क. इटिस. २.