पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःपञ्चाशः सर्गः . २५ एतदेव हि मे राजम् विविधाश्च क्रियास्तथा । अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।। बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायो संहितायां बालकाण्डे शबलानिष्कयो नाम त्रिपञ्चाशः सर्ग: चतुःपञ्चाशः सर्गः १ २ ३ ४ ६ ७ ८ पप्लवादिसृष्टिः कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः । तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ।। नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ।। परित्यक्ता वसिष्टेन किमहं मुमहात्मना । याहं राजभटैर्दीना हियेय भृशदुःखिता ।। किं मयापकृतं तस्य महावितात्मनः । यन्मामनागसं भक्तामिष्ठां त्यजति धार्मिक' । इति सा चिन्तयित्वा तु विनिःश्वस्य पुनः पुनः' । निध्य तास्तदा भृत्यान् शतशः शत्रुसूदन ।। जगामानिलवेगेन पादमूलं महात्मनः । शबला सा रुदन्ती च क्रोझन्ती चेदमब्रवीत् ।। वसिष्ठस्याग्रतः स्थिन्या मेघदुन्दुभिराविणी । भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत । यस्माद्राजभटा मां हि नयन्ते त्वत्मकाशतः । एवमुनस्तु ब्रह्मपिरिदं वचनमब्रवीत् ।। शोकसंतप्तहृदयां स्वमारमिव दुःखिताम् । न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ॥ एष त्वां नयते राजा बलान्मत्तो महाबलः । न हि तुल्यं बलं मह्यं राजा त्वद्य विशेपतः॥ बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च । इयमक्षौहिणी सेना गजवाजिरथाफुला ।। पत्तिध्वजसमाकीर्णा तेनासी बलवत्तरः । एवमुक्ता वसिष्टेन प्रत्युवाच विनीतवत् ।। वचनं वचनज्ञा सा ब्रह्मर्पिममितप्रभम् । न बलं भत्त्रियस्याहुाह्मणो बलवत्तरः।। ब्रह्मन् ब्रह्मवलं दिव्यं क्षत्रात्तु बलवत्तरम् । अप्रमेयबलं तुभ्यं न त्वयों बलवत्तरः ।। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम । नियुक्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम् ॥ तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः । इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।। सृजस्वेति तदोवाच बलं परबलाईनम् । तस्य तद्वचनं श्रुत्वा सुरभिः सासजत्तदा ।। तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप । नाशयन्ति बलं सर्व विश्वामित्रस्य पश्यतः ॥ ९ १२ १३ १४ १५ १८ ३. स्वतो ४. -रुजम् च. झ. १. अस्थानन्तरम्--अगाम वगन तदा वसिष्ठ परमौजसम्-इति क. २. पूर्णा सवाजिरयसंकुला क. ध. च, .. म. पझवाः