पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

८० १३ १४ १५ १६ १७ १८ श्रीमद्वाल्मीकिरामायणे बालकाण्डे वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् । तानि सर्वाणि दण्डेन ग्रसते ब्राह्मणः सुतः। तेषु शान्तेषु ब्रह्मानं क्षिप्तवान् गाधिनन्दनः । तदनमुद्यतं दृष्ट्वा देवाः सामिपुरोगमाः॥ देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः । त्रैलोक्यमासीत् संत्रस्तं ब्रह्माको समुदीरिते। तदप्यस्त्रं महाघोरं माझं ब्राह्मण तेजसा । वसिष्ठो असते सर्व ब्रह्मदण्डेन राघव ।। ब्रह्मास्त्र प्रसमानस्य वसिष्टस्य महात्मनः । त्रैलोक्यमोहनं रौद्र रूपमासीत् सुदारुणम् ।। रोमकूपेषु सर्वेषु वसिष्क्ष्स्य महात्मनः । मरीच्य इव निष्पेतुरग्नेधूमाकुलार्चिषः ।। प्राज्वलत् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः । विधूम इव कालामियमदण्ड इवापरः॥ ततोऽस्तुवन् मुनिगणा वसिष्ठ जपतां वरम् । अमेय ने बलं ब्रह्मस्तेजो धारय तेजसा ।। निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः । प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ।। एवमुक्तो महातेजाः शमं चक्रे महातपाः । विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ।। धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ।। तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारकम् ।। इत्यार्षे श्रीमद्रामायणे याल्मीकीये आदिकाव्ये चतुर्विंशतिसहमिकायां संहितायां बालकाण्डे ब्रह्मतेजोवलं नाम षट्पञ्चाशः सर्गः १९ २१ २२ २३ २४ १ २ ३ ४ सप्तपञ्चाशः सर्गः त्रिशङ्कुयाजनप्रार्थना ततः संतप्तहृदयः स्मरनिग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ।। स दक्षिणां दिशं गत्वा महिष्या सह राघव । तताप परमं घोरं विश्वामित्रो महानपाः ।। फलमूलाशनो दान्तश्चचार सुमहनपः । अथास्य जांझरे पुत्राः सत्यधर्मपरायणाः ।। हविष्यन्दो मधुप्यन्दो दृढनेत्रो महारथः । पूर्ण वर्षसहमे तु ब्रह्मा लोकपितामहः ।। अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् । जिता राजर्पिलोकास्ते तपसा कुशिकान्मज ॥ अनेन तपसा त्यां तु राजपिरिति विद्महे । एवमुक्त्वा महातेजा जगाम सह दैवतैः ।। त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः । विश्वामित्रोऽपि तच्छुत्वा ह्रिया किंचिदवाङ्मुखः ॥ दुःखन महताविष्टः समन्युरिदमब्रवीत । तपश्च सुमहत्तप्तं राजपिरिति मां विदुः ।। देवाः सर्षिगणाः मर्वे नास्ति मन्ये तपःफलम । इति निश्चित्य मनसा भूय एव महातपाः॥ तपश्वचार काकुत्स्थ परमं परमात्मवान् । एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।। विशङ्कुरिति विख्यात इक्ष्वाकुकुलबर्धनः । तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ।। गच्छेयं स्वशरीरेण देवानां परमां गतिम् । स वसिष्ट समाहूय कथयामास चिन्तितम् ।। अशक्यमिति चाप्युको वसिनि महात्मना । प्रत्याख्यातो बसिष्ठेन स ययौ दक्षिणां दिशम् ॥ ६ ८ ११ १२ १३ १. कारणं प्र. २. मापः प्र.