पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ 6. ८ ९ १० ११ १२ २० श्रीमद्वाल्मीकिरामायणे बालकाण्डे भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः । वरयेम सुते राजस्तयोरर्थे महात्मनोः ॥ पुत्रा दशरथस्येमे रूपयौवनशालिनः । लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ।। उभयोरपि राजेन्द्र संबन्धो धनुबध्यताम् । इक्ष्वाकोः कुलमव्ययं भवतः पुण्यकर्मणः ॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते नदा । जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ ।। कुलं धन्यमिदं मन्ये येषां नो मुनिपुंगधौं' । सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् ॥ एवं भवतु भद्रं वः कुशध्वजसुने इमे ! पन्यौ भजेता सहितौ शत्रुघ्नभरतावुभौ ।। एकाहा राजपुत्रीणां चतसूणां महामुने । पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महबलाः ।। उत्तरे दिवस ब्रह्मन फल्गुनीभ्यां मनीषिणः । वैवाहिक प्रशंसन्ति भगो यत्र प्रजापतिः ।। एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः । उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ।। १४ परो धर्मः कृतो मह शिष्योऽस्मि भवतोः सदा । इमान्यासनमुन्यानि आसानां मुनिपुंगवौ ॥ १५ यथा दशरथस्येयं तथायोध्या पुरी मम । प्रभुत्वे नास्ति संदेहो यथार्ह कर्तुमर्हथ ।। १६ तथा ब्रुति वैदेहे जनके रघुनन्दनः । राजा दशरथो दृष्टः प्रत्युवाच महीपतिम् ।। युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ । ऋपयो राजसङ्घाश्च भवद्भयामभिपूजिताः ।। स्वस्ति प्राप्नुहि भद्रं ते गमिप्यामि स्वमालयम । श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत्॥१९ तमापृष्ट्वा नरपति राजा दशरथन्तदा । मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ।। स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः । प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २१ गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः । एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ।। २२ सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः । गवां शतसहस्राणि चत्वारि पुरुषर्षभः ।। २३ विनमन्यच मुबहु द्विजेभ्यो रघुनन्दनः । ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ स मुतैः कृतगोदानैर्वृनन्तु नृपतिस्तदा । लोकपालेरिवाभाति वृत्तः सौम्यः प्रजापतिः ।। इत्या श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायां बालकाण्डे गोदानमङ्गलं नाम द्विसप्ततितमः सर्गः त्रिसप्ततितमः सर्गः दशरथपुत्रोहाहः यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे शूरो युधाजित् समुयिवान् ।। पुत्रः ककयराजस्य साक्षारतमातुलः । दृष्ट्वा पृष्टा च कुशलं राजानमिदमब्रवीत् ॥ केकयाधिपती गजा स्नेहात कुशलमप्रवीत् । येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् ।। स्वस्नीयं मम राजेन्द्र द्रष्टुकामो महीपतिः । तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ श्रुत्वा स्कमयोध्यायां विवाहाथ तथात्मजान । मिथिलामुपयातांस्तु त्वया सह महीपते ॥ स्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् । अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥ दृष्ट्वा परमसत्कारैः पूजनाहमपूजयत् । ततस्तामुपितो रात्रि मह पुत्रैर्महात्मभिः ॥ orr3039 1. काल्यम् मङ्गलम् । १. इदमर्धम् ग. नास्ति।