पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे ७ ९ १० १५ १६ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । तत्रैवानाययामास राघवः प्रियकाम्ययो । ७ तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् । ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ वराहरुधिराभेण शुचिना च सुगन्धिना । अनुलिप्तं पराध्येन चन्दनेन परंतपम् ॥ ९ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया । उपेतं सीतया भूयश्चित्रया शशिनं यथा । १० तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा । ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ प्राञ्जलिस्तु सुग्वं पृष्ट्वा विहारशयनामने । रजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२ कौसल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति । महिष्या सह कैकय्या गम्यतां नत्र मा चिरम् ॥१३ एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । ततः समानयामास सीतामिदमुवाच ह ।। १४ देवि देवश्च देवी च समागम्य मदन्तरे । मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्।। १५ लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । संचोदयति राजानं मदर्थ मदिरेक्षणे ॥ १६ सा प्रदृष्टा महाराजं हितकाभानुवर्तिनी । 'जननी चार्थकामा मे कैकयाधिपतेः सुता ।। १७ दिष्टया खलु महाराजो महिष्या प्रियया सह । सुमन्त्रं प्राहिणोद्दृतमर्थकामकरं मम ।। १८ यादृशी परिपत्तत्र नादृशो दृत आगतः । ध्रुवमद्येव मां राजा यौवगज्येऽभिषेक्ष्यति ॥ १९ हन्त शीघ्रमितो गन्वा द्रक्ष्यामि च महीपतिम् । सह त्वं परिवारेण सुखमान्स्व ग्मस्व च ॥ २० पतिसंमानिता सीता भर्तारमसितेक्षणा | आ द्वारमनुवत्राज मङ्गलान्यभिदध्युषी ।। २१ राज्यं द्विजातिभिर्जुष्टं गजसूयाभिषेचनम् । कर्तुमर्हति ते राजा वासवस्येव लोककृत ।। २२ दीक्षितं व्रतसंपन्न वराजिनधरं शुचिम् । कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ।। २३ पूर्वो दिशं वत्रधरो दक्षिणां पातु ने यमः । वरुणः पश्चिमामाशां धनेशस्नृत्नरां दिशम् ।। २४ अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ।। २५ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ।। २६ अथ मध्यमकक्ष्यायां समागच्छत् सुहृजनैः । स सर्वानर्थिनो दृष्ट्रा समेन्य प्रतिनन्द्यै च ॥ २७ तत: पर्वतसंकाशमारुरोह रथोत्तमम् । वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः । २८ मेघनादमसंवाधं मणिविदृमभूषितम् । मुष्णन्तमिव चश्रंषि प्रभया सूर्यवर्चसम् ।। २९ करेणुशिशुकन्पैश्च युक्तं परमवाजिभिः । हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।। ३० प्रययौ तुर्णमास्थाय राघवो ज्वलितः श्रिया । स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।। ३१ निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः । छत्रचामरपाणिस्तु लक्ष्मणो गघवानुजः ।। ३२ जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः । ततो हलहलाशब्दस्तुमुलः समजायत ।। ३३

१. राघवप्रियकान्थया म. छ. च ४. पावक- ५, मणिहमविभूषितम् च. समागम्य छ. ३. चननन्द ख.