पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमवाल्मीकिरामायणे अयोध्याकाण्डे ४ ६ उत्तमानां च गन्धानां झौमकौशाम्बरस्य च । अविद्वामिश्च मुक्तामिरुत्तमैः स्फाटिकैरपि । ४ शोभमानमसंबाधं तं राजपथमुत्तमम् । संवृतं विविधैः पण्यैर्भक्ष्यैरुवाचैरपि।| ५ ददर्श तं राजपथं दिवि देवपथं यथा । भ्यक्षतहविलाजैर्धूपैरगरुचन्दनैः ।। ६ नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् । आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् ॥७ यथाईं चापि संपूज्य सर्वानेव नरान् ययौ । पिनामहैराचरितं तथैव प्रपितामहै: ।। अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय । यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहै:।। ९ ततः मसुखतरं रामे वत्स्यामः सति राजनि । अलमद्य हि भुक्तेन परमार्थैरलं च नः ॥ १० यथा पश्येम निर्यान्तं रामं राज्ये प्रतिष्ठितम् । ततो हि नः प्रियतरं नान्यत् किंचिद्भविष्यति ॥ ११ यथाभिषेको रामम्य राज्येनामिततेजसः । एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः॥ १२ आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् । न हि तस्मान्मनः कश्चिचक्षुषी वा नरोत्तमात् ॥१३ नरः शक्नोत्यपाक्रष्टुमतिकान्तेऽपि राघवे । यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।। १४ निन्दितः स भवेल्लोकं स्वात्माप्येनमं विगर्हते । सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।। १५ चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः । चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ॥ १६ प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः । स राजकुलमामाद्य मेघंमघोपमैः शुभैः ।। प्रासादशृङ्गैर्विविधै: कैलासशिखरोपमैः । आवारयद्भिर्गगनं विमानैरिव पाण्डरैः ।। वर्धमानगृहैश्चापि रत्नजालपरिष्क्र्तै: । तत् पृथिव्यां गृहवरं महन्द्रभवनोपमम् ॥ राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलम् । स कक्ष्या धन्विभिर्गुप्रास्तिस्रोऽतिक्रम्य वाजिभिः।२० पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः । स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।। २१ निवर्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ।। ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे । प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः मरित्पतिः ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्ंर्विशतिसहस्रिकायां संहितायां अयोध्याकाण्डे रामागमन नाम सप्तदशः सर्गः २२ अष्टादशः सर्गः १ वनवासनिदेशः स ददर्शात्मने रामो निषण्ण्ं पितरं शुभे । कैकेयीसहितं दीनं मुखेन परिशुष्यता ।। स पितुश्चरणौ पूर्वमभिवाद्य विनीनवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ रामेन्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितु नाभिभाषितुम् ।। २ ३ अम्यानन्तरम्-त वन्दमानं नृपतिः शोकाकुलितंचतन:--इति ख.