पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः ४ ६ ७ ८ तदपूर्व नरपतेर्दृष्वा रूपं भयावहम् । रामोऽपि भयमापन्न: पदा स्पृष्ट्रेव पन्नगम् ॥ ४ इन्द्रियैरप्रहष्टैस्तं शोकसंतापकर्शितम् । निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्नमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृपि यथा । ६ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ चिन्तयामास च तदा रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ।। ८ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामद्य संप्रेक्ष्य किमायास: प्रवर्तते ।। ९ स दीन इव शोकार्तो विषण्णवदनद्युति: । कैकयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० कश्चिन्मया नापगद्धमज्ञानाद्येन मे पिता । कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।। ११ अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः । विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ शरीरो मानसो वापि कञ्चिदेनं न बाधते । संतापो वाभितापो वा दुर्लभं हि सदा सुरवम् ।। १३ कञ्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने । शत्रुघ्ने वा महासत्त्वे मातृणां वा ममाशुभम् ।। १४ अतोषयन् महागजमकुर्वन् वा पितुर्वचः । मुहूर्तमपि नेच्छेयं जीवितुं फुपिते नृपे ।। १५ यतोमूलं' नर पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेते प्रत्यक्षे सति दैवते ।। १६ कञ्चिने परुषं किञ्चिदभिमानात् पिता मम । उक्तो भवत्या कोपेन येनास्य लुलितं मनः || १७ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः । किनिमिनमपूर्वोऽयं विकारो मनुजाधिपे ।। एवमुक्ता तु कैकयी राघवेण महात्मना । उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ।। १९ न राजा कुपितो राम व्यसनं नास्य किंचन । किंचिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥ २० प्रियं त्रामप्रियं वक्तुं वाणी नास्योपवर्तते । तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ २१ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ।। २२ अतिसृज्य दहानीति वरं मम विशां पतिः । स निरर्थं गतजले सेतुं बन्धितुमिन्छति ।। २३ धर्ममूलमिदं राम विदितं च सतामपि । तत् सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ र्याद तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ।। २५ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ।। २६ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ ।। २७ अहो धिड़नाहमे देवि वक्तुं मामीदृशं वचः । अहं हि वचनाद्राज्ञ्: पतेयमपि पावके ॥ २८ भक्षयेयं विषं तीक्ष्णं भञ्जेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च !! २९ तद् ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् । करिश्ये प्रतिजाने च रामो द्विाभिभाषते ।। ३० तमार्जवसमायुक्तमनार्या सत्यवादिनम् । उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ १८ २० २२ २८ 1. यतोमूलमिति यन्मूलामस्य भामिति तिककः।