पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मार्थकामाः किल जीवलोके समीक्षिता धर्मफलोदयेषु ।
ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सपुत्रा ॥ ५७
यस्मिंस्तु सर्व स्युरसंनिविष्टा धर्मो यनः स्यात्तदुपक्रमेत ।
द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ ५८
गुरुश्व राजा च पिना च वृद्धः क्रोधात् प्रहर्षाद्यदि वापि कामात ।
यद्वादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः ॥ ५९
स वै न शक्नोमि पितुः प्रतिज्ञामिमामकतुं सकलां यथावत् ।
स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिः स धर्मः ॥ ६०
तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने ।
देवी मया सार्धमितोऽपगच्छेत् कथंस्विदन्या विधवेव नारी ॥ ६१
सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि ।
यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः ॥ ६२
यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम् ।
अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ ६३
प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिपुरेव दण्डकान् ।
अथानुजं भृशमनुशाम्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां

अयोध्याकाण्डे कौसल्यालक्ष्मणप्रतिबोधनं नाम एकविंशः सर्गः

द्वाविंशः सर्गः

दैवप्राबल्यम्

अथ तं व्यथया दीनं सविशेषममर्षितम् । श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ १
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियन् । उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ २