पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

न लक्ष्मणास्मिन खलु कर्मविघ्ने माता यवीयस्यतिशङ्कनीया ।
दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथाप्रभावम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
अयोध्याकाण्डे दैवप्राबल्यं नाम द्वाविंशः सर्गः




त्रयोविंशः सर्गः


लक्ष्मणक्रोधः


इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः । श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ १
तदा तु बद्धा भ्रकुटीं भ्रुवोर्मध्ये नरर्षभः । निशश्वास महासर्पो बिलम्थ इव रोषितः ॥ २
तस्य दुष्प्रतिवीक्षं तद्भृकूटीसहितं तदा । बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३
अग्रहस्तं विधुन्वंस्तु हस्तिहमिवात्मनः । तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम ॥ ४
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत । अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ ५
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया । कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६
यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ। किं नाम कृपणं दैवमशक्तमभिशंससि ॥ ७
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते । सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन किं न बुध्यसे ॥ ८
तयोः सुचरितं स्वार्थं शाठ्यात परिजिहीर्षतोः । यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ॥ ९
तयोः प्रागेच दत्तश्च स्याद्वरः प्रकृतश्च सः । लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम ॥ १०
नोन्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि । येनेयमागता द्वैधं तव बुद्धिर्महामते ॥ ११
स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि । कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ १२
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् । यद्ययं किल्बिपाद्भेदः कृतोऽप्येवं न गृह्यते ॥ १३
जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः । तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः ॥ १४
मनमापि कथं कामं कुर्यात स्वं कामवृत्तयोः । तयोस्त्वहितयोर्नित्यं शवोः पित्रभिधानयोः ॥ १५
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम । तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १६
विक्लबो वीर्यहीनो यः स दैवमनुवर्तते । वीराः संभावितात्मानो न दैवं पर्युपासते ॥ १७
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ १८
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च । दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १९
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः । यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ २०