पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशः सर्गः १५१

चतुर्विंशः सर्गः
कौसल्यार्पितसमाश्वासनम्
तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरद्धा वचो धर्मिष्ठमब्रवीत्॥ १
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंपदः। मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ २
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते नाथो वने मूलफलान्ययम्॥ ३
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम्। गुणवान् दयितो राज्ञो राघवो यद्विवास्यते॥ ४
नूनं तु बलवाल्लोके कृतान्तः सर्वमादिशेत्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि॥ ५
अयं तु मामात्मभवस्तवादर्शनमारुतः। विलापदुःखसमिधो रुदितश्रुहुताहुतिः॥ ६
चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वा भृशं पुत्र निःश्वासायाससंभवः॥ ७
त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये॥ ८
कथं धेनुः स्वकं वत्सं गच्छन्तं नानुगच्छति। अहं त्वानुगमिष्यामि पुत्र यत्र गमिष्यसि॥ ९
तथा निगदितं मात्रा तद्वाक्यं पुरुपर्षभः। श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्॥ १०
कैकय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ ११
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ १३
एवमुक्ता तु कौसल्या रामेण शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ १४
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्॥ १५
मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ १६
इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीतः स्थास्यामि वचने तव॥ १७
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या पुत्रवत्सला॥ १८
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्। नय मामपि काकुस्थ वनं वन्यां मृगी यथा॥ १९
यदि ते गमने बुद्धिः कृता पितुरपेक्षया। तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्॥ २०
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च। भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ २१
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ २२
भवतीमनुवर्तत स हि धर्मरतः सदा। यथा मयि तु निष्कान्ते पुत्रशोकेन पार्थिवः॥ २३
श्रमं नावाप्नुयात् किंचिदप्रमत्ता तथा कुरु। दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ २४
राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा॥ २५
भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ २६

१. तवादर्शनचिन्तजः च. छ. तवागमनचिन्तज: गो.