पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः सर्गः १६१

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना । पिरसंनियतं बाष्पं भुमोचाग्निमिवारणिः॥ २३ तस्याः स्फटिकसंकाशं वारि संतापसंभवम् । नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ २४ तैत्सतामलकचन्द्राभं मुखमायतलोचनम् । पर्यशुष्यत बाष्पेण जलोद्धृतभिवाम्बुजम॥ २५ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयंम्तदा॥ २६ न देवि तव दुग्वेन स्वर्गमप्यभिरोचये । न हि मेऽस्ति भयं किंचित स्वयंभोरिव मर्वनः ॥ २७ तव सर्वमभिप्रायमविज्ञाय शुभानने । वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणं॥ २८ यत् सृष्टासि मया साध वनवासाय मैथिलि । न विहातुं मया शक्या कीर्तिरात्मवता यथा॥ २९ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा । तं चाहमनुवर्तेऽद्य यथा सूर्य सुवर्चला॥ ३० न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तन्नयति मां पितुः सत्योपबृंहितम्॥ ३१ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता । अतश्च न व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ ३२ म्वाधीनं समतिक्रम्य मातरं पितरं गुरुम ! अस्वधीनं कथं दैवं प्रकारैरभिराध्यते॥ ३३ यत्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि । नान्यदस्ति शुभापाङ्गं तेनेदमभिराध्यते ॥ ३४ न मत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः । तथा बलकराः सीने यथा सेवा पितुर्हिता॥ ३५ स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि च । गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ ३६ देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः । प्राप्नुवन्ति महात्मानो मातापितृपरायणाः॥ ३७ स मा पिता यथा शारित मत्यधर्मपये स्थितः । तथा वर्तितुमिच्छामि सहि धर्मः सनातनः॥ ३८ मम सन्ना मतिः सीतं त्वां नेतुं दण्डकावनम । वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ सा हि सृष्टानवद्याङ्गी वनाय मदिरेक्षणे । अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ ४० सर्वथा सदृशं सीते मम स्वस्य कुलस्य च । व्यवसायमनुक्रान्ता सीते त्वमतिशोभनम्॥ ४१ आरभस्व गुरुश्रोणि वनवासक्षमाः क्रियाः । नेदानीं त्वदृते सोते स्वर्गोऽपि मम रोचते ॥ ४२ प्रामणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ ४३ भूषणानि महार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥ ४४ शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्॥ ४५ अनुकूलं तु सा भर्तृर्ज्ञात्वा गमनमात्मनः । क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे॥ ४६

     ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भापितम।
     धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी॥                         ४७
   इत्यार्षे भीमद्रामायगे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकाया सहिताया
            अयोध्याकाण्डे बनगमन न्युपपत्तिर्नाम त्रिंशः सर्गः



1दिग्भरिति, विषलिप्त्बाणैरित्वथः।                १ तश्चैव   झ.   ञ.
2सुवर्चला सूर्यमिक त्व मामनुववस्वत्यर्थः ।
   21