पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पट्पञ्चाशः सर्गः २०३

ईषसंलजमानां तामभ्यारोपयत प्लवम । पार्श्व तत्र च वैदेह्या वमने भूषणानि च ॥
प्लवे काठनकार्ज' च रामश्चक्र महायुधैः । आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य च ॥
ततः प्रतेस्तुर्युक्तौ प्रीनों दशरथात्मजौ । कालिन्दीमध्यमायाता मीता त्वेनामचन्दन ।। १९
स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्बनम । यक्ष्ये त्वां गासहस्रेण सुराघटशतेन च ।।
स्वस्ति प्रत्यागतं रामे पुमिक्ष्याकुपालिताम | कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ।। २१
तीरमेवाभिमंप्राप्ता दक्षिणं वरणिनी । ततः प्लवेनांशुमती शीघ्रगामूर्मिमालिनीम ॥
तीरजैर्बहुभिक्षेः संयमुना नदीम । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥ २३
श्याम न्यग्रोधमासेदुः शीतलं हरितच्छदम । न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ॥
नमस्तेऽस्तु महावृक्ष पारयेन्मे पनिव्रतम । कौसल्यां चैव पश्येय मुमित्रां च यशस्विनीम ॥
इति मीताञ्जलिं कन्या पर्यगच्छद्वनम्पतिम । अवलोक्य ततः मीतामायाचन्तीमनिन्दिताम ॥ २६
दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् । सीतामादाय गच्छ त्वमप्रतो भरतानुज ॥
पृष्टतोऽहं गमिष्यामि मायुधो द्विपदा वर । यद्यत फलं प्रार्थयते पुप्पं वा जनकान्मजा ।।
ननन प्रदद्या वैदेता यत्राम्या रमने मनः । गच्छतोन्तु तयोर्मध्ये बभूर्व जनकात्मजा ॥
मातङ्गयामध्यगता शुभा नागवरिव । एकैकं पादपं गुल्मं लनां वा पुष्पशालिनीम् ॥
अदृष्टपूर्वा पश्यन्ती गमं पप्रच्छ माबला । रमणीयान बहुविधान पादपान कुमुमोत्करान ॥ ३१
सीनावचनमंरब्ध आनयामाम लक्ष्मणः । विचित्रवालुकां नीलां हंससारसनादिनाम् ।। ३२
रेमे जनकराजम्य मुता प्रेक्ष्य तदा नदीम ! क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।। ३३
बहन
मेध्यान मृगान हन्वा चेग्तुर्यमुनावने ॥
विहत्य ते बहिणपूगनादिने शुभे बने वानरवारणायुते ।
ममं नदीवप्रमुपेत्य संमतं निवासमाजग्मुरदीनदर्शनाः ।।

दत्या श्रीमद्रामायणे वाल्मीकीय आदिकाय चतुर्विशतिसहमिकाया साहनायाम् अघोपाकाण्ट यमुनातरण नाम पञ्चपञ्चाशः सर्गः

षट्पञ्चाशः सर्गः चित्रकूटनिवासः

अथ राज्यां व्यतीतायामवसुप्तमनन्तरम । प्रबोधयामास शनैलक्ष्मणं रघुनन्दनः ॥