पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः २१५

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम । वन्य' वा श्रापदं कंचिजिघांसुरजितेन्द्रियः ॥ २१
अथान्धकारे त्वौषं जले कुम्भस्य पूर्यतः । अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २२
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् । शब्द प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।। २३
अमुञ्च निशितं बाणमहमाशीविषोपमम् । तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ॥ २४
हा हेति पततस्तोये बाणाभिहतमर्मणः । तस्मिनिपतिते बाणे वागभूत्तत्र मानुषी ॥ २५
कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि । प्रविविक्ता नदी रात्राबुदाहारोऽहमागतः ।। २६
हपुणाभिहतः केन कस्य वा किं कृतं मया । ऋर्हि न्यस्तदण्डस्य वने वन्येन जीवतः ॥ २७
कथं नु शस्त्रेण बधो मद्विधस्य विधीयते । जटाभारधरस्येव वल्कलाजिनवाससः ।। २८
को वधेन ममार्थी स्यात्किं वास्यापकृतं मया । एवं निष्फलमारब्धं केवलानर्थसंहितम् ।। २९
न कश्चित्साधु मन्येत यथैव गुरुतल्पगः । नाहं तथानुशोचामि जीवितक्षयमात्मनः ॥
मातरं पितरं चोभावनुशोचानि मद्वधे । तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।।
३१
मयि पञ्चत्वमापने कां वृत्तिं वर्तयिष्यति । वृद्धौ च मातापितरावहं चैकेषुणा हत्तः ।। ३२
कंन रम निहताः सर्व सुवालेनाकृतात्मना । तां गिरं करुणां श्रुत्वा मम धर्मानुकाविणः ।। ३३
कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि । कस्याहं करुणं श्रुत्वा निशि लालपतो बहु । ३४
संभ्रान्तः शोकवेगेन भृशमासं विचेतनः । तं देशमहमागम्य दीनसत्वः सुदुर्मनाः॥
अपश्यमिपुणा तीरे सरय्वास्तापसं हतम । अवकीर्णजटाभार प्रविद्धकलशोदकम् ॥
पांसुशोणितदिग्धाजं शयानं शरपीडितम् । स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ।।
इत्युवाच वचः क्रूर दिधक्षन्निव तेजसा । किं तवापकृतं राजन् वने निवसता मया ॥ ३८
जिहीर्षरम्भो गुर्वर्थ यदहं ताडितस्त्वया । एकेन खलु बाणेन मर्मण्यभिहते मयि ।। ३९
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे । तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ॥
चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः । न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा। ४१
पिता यन्मां न जानाति शयानं पतितं भुवि । जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ।। ४२
भिधमानमिवाशक्तस्रातुमन्यो नगो नगम् । पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ॥ ४३
न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः । इयमेकपदी राजन् यतो मे पितुराश्रमः ।।
तं प्रसादय गत्वा त्वं न त्वां स कुपितः स्पेत् । विशल्यं कुरु मां राजन मर्म मे निशितः शरः ।।
रुजद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा । सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्वति ।। ४६
इति मामविशचिन्ता तस्य शल्यापकर्षणे । दुःखितम्य च दीनस्य मम शोकातुरस्य च ।।