पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्षष्टितमः सर्गः २२१ २९ अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः । भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशांतसहासकायां संहितायाम् अयोध्याकाण्डे अन्तःपुराक्रन्दो नाम पञ्चषष्टितमः सर्गः १ २ ३ ४ ५ ७ ८ षट्षष्टितमः सर्गः तैलद्रोण्यधिशयनम् तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् । हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ।। कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता । उपगृह्य शिरो राशः कैकेयी प्रत्यभापत ॥ सकामा भव कैयि भुक्ष्व राज्यमकण्टकम् । त्यक्त्वा राजानमेकामा नृशंसे दुष्टचारिणि ।। विहाय मां गतो रामो भर्ता च स्वर्गतो मम । विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ।। भर्तारं तं परित्यज्य का स्त्री देवतमात्मनः । इच्छेजीवितुमन्यत्र कैकेय्यारत्यक्तधर्मणः ।। न लुब्धो बुध्यते दोपान किंपाकमिव भक्षयन् । कुटजानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ ६ अनियोगे नियुक्तन राज्ञा राम विवासितम् । सभार्य जनकः श्रुत्वा परितप्स्यत्यहं यथा ।। स मामनाथां विधवां नाद्य जानाति धार्मिकः । रामः कमलपत्राक्षो 'जीवनाशमितो गतः।। विदेहराजस्य सुता तथा सीता तपस्विनी । दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यते ।। नदतां भीमघोषाणां निशासु मृगपक्षिणाम । निशम्य नूनं संत्रस्ता राघवं संयिष्यति ।। १० वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् । सोऽपि शोकसमाविष्टो ननु त्यस्यति जीवितम् ।। ११ साहमद्यैव दिष्टान्तं गमिष्यामि पतित्रता । इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ।। १२ तां ततः संपरिष्वज्य विलपन्ती तपस्विनीम् । 'व्यपनिन्युः सुदुःखाता कौसल्या व्यावहारिकाः ॥१३ तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम । राज्ञः सर्वाण्यथादिष्टाश्चक्रुः काण्यनन्तरम् ।। १४ न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ।। तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् । हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यवारयन् ॥ १६ बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः । रुदन्त्यः शोकसंतप्ताः करुणं पर्यदेवयन् ।। हा महाराज रामेण सततं प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ।। १८