पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

याचितस्ते पिता राज्यं रामस्य च विवासनम् । स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् ॥ ५०
रामश्च सहसौमित्रिः प्रेषितः सह सीतया । वमपश्यन् प्रियं पुत्रं महीपालो महायशाः ।।
पुत्रशोकपरिघुनः पञ्चत्वमुपपेदिवान् । त्वया विदानी धर्मश राजत्वमवलम्ब्यताम् ।। ५२
त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् । मा शोकं मा च संतापं धैर्यमाश्रय पुत्रक । ५३
स्वदधीना हि नगरी राज्यं चैतदनायकम् ॥
तत् पुत्र शीघ्र विधिना विधिर्वसिष्टमुख्यैः सहितो द्विजेन्द्रैः।
संकाल्य राजानमदीनसस्वमात्मानमुप्मभिषेचयस्त्र ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सहितायाम् अयोध्याकाण्डे मरतसन्तापो नाम द्विसप्ततितमः सर्गः त्रिसप्ततितमः सर्गः कैकेयीविगर्हणम्

श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो दुःखसंतप्त इदं वचनमब्रवीत् ।।
किं नु कार्य हतस्येह मम राज्येन शोचतः । विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥
दुःखे मे दुःखमकरोघेणे क्षारमिवादधाः । राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ।।
कुलस्य त्वमभावाय कालरात्रिरिवागता । अङ्गारमुपगृह्य त्वां पिता मे नावबुद्धवान् ।।
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखं परिहतं मोहात् कुलेऽस्मिन् कुलपांसनि ।
त्वो प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः । तीनदुःख भिसंतप्नो वृत्तो दशरथो नृपः ।।
विनाशितो महाराजः पिता मे धर्मवत्सलः । करमात् प्रत्राजितो रामः कस्मादेव वनं गतः ॥
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते । दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥
ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् । वर्तते गुरुवृत्तिको यथा मातरि वर्तते ॥