पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चसप्ततितमः सर्गः

मा स्म धर्मे मनो भूयादधर्मं स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ।।
संचितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युमिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः ।।
उभे सन्ध्ये शयानस्य यत् पापं परिकल्प्यते । तच पायं भवेत्तस्य यस्यार्योऽनुमते गतः ।।
यदग्निदायके पापं यत् पापं गुरुतल्पगे । मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् ।।
देवतानां पितृणां च मातापित्रोस्तथैव च । मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥ ४६
सतां लोकान् सतां कीर्त्याः सज्जुष्टात् कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥४७
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुमहावक्षा यस्यार्योऽनुमते गतः ॥
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । समायात् सततं अशी यस्यार्योऽनुमते गतः ।। ४९
आशामाशंसमानानां दीनानामूलचक्षुषाम् । अर्थिनां वितयां कुर्याद्यस्यार्योऽनुमते गतः
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः । राशो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः।।
ऋतुस्नातां सती भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥
धर्मदारान् परित्यज्य परदाराभिषेवताम् । त्यधर्मरतिमूढो यस्यार्योऽनुमते गतः ।। ५३
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् । तदेतत् प्रतिपधेत यस्यार्योऽनुमते गतः।
पानीयदूषके पापं तथैव विषदायके । यत्तदेकः स लभतां यस्यार्योऽनुमते गतः॥
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः । बालवत्सां च गां दोग्धु यस्यार्योऽनुमते गतः ।।
तृषात सति पानीये विप्रलम्भेन योजयन् । यत् पापं लभते तत् स्यात् यस्यार्योऽनुमते गतः॥ ५७
भक्त्या विक्दमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥
विहीनां पतिपुत्राभ्यां कौसल्या पार्थिवात्मजः । एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥ ५९
तथा तु शपथैः कष्टैः शपमानमचेतनम् । भरत शोकसंतप्तं कौसल्या वाक्यमब्रवीत् ॥
मम दुःखमिदं पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणानुपरुणसि मे ।।
दिष्टया न चलितो धर्मादात्मा ते सहलक्षणः । यस सत्यप्रतिशो मे सतां लोकानवाप्स्यसि ।। ६२
इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् । परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ।।
एवं विलपमानस्य दुःखार्तस्य महात्मनः । मोहाच शोकसंरोधाभूव लुलितं मनः ।। ६४
लालप्यमानस्य विचेतनस्य प्रनष्टबुद्धेः पतितस्य भूमौ ।
मुहुर्मुहुनिश्वसतश्च दीर्घ सा तस्य शोकेन जगाम रात्रिः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम अयोध्याकाण्डे भरतशपथो नाम पञ्चसमतितमः सर्गः