पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ श्रीमद्बाल्मीकिरामायणे अयोध्याकाण्डे

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् । सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ।
स काञ्चनमयं पीठं परास्तिरणावृतम् । अध्यास्त सर्ववेदशो दूताननुशशास च ॥
ब्राह्मणान् क्षत्रियान् वैश्यानमात्यान् गणवल्लभान् । क्षिप्रमानयताव्यमाः कृत्यमात्ययिक हि नः ॥
सराजपुत्रं शत्रुघ्नं भरतं च यशस्विनम् । युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ॥ १३
ततो हलहलाशब्दः सुमहान् समपद्यत । स्थैराजैश्चापि जनानामुपगच्छताम् ।।
ततो भरतमायान्तं शतक्रतुमिवामराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा । १५
हद इव तिमिनागसंवृतः स्तिमितजलो मणिशशर्करः।
दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा ।।

१६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे सभास्थानं नाम एकाशीतितमः सर्गः द्व्यशीतितमः सर्गः सेनाप्रस्थापनम्

तामार्यगणसंपूर्णा भरतः प्रग्रहां' सभाम् । ददर्श बुद्धिसंपन्नः पूर्णचन्द्रो निशामिव ।।
आसनानि यथान्यायमार्याणां विशतां तदा । वस्त्रागरागप्रभया छोतिता मा सभोत्तमा ।
सा विद्वज्जनसंपूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥
राज्ञस्तु प्रकृतीः सर्वाः समप्राः प्रेक्ष्य धर्मविन् । इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥
तात राजा दशरथः वर्गतो धर्ममाचरन् । धनधान्यवतीं रफीतां प्रदाय पृथिवीं तव ।।
रामस्तथा सत्यधृतिः सतां मनुस्मरन् । नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् । तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिपेचय ॥
उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः । कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ।।
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः । जगाम मनसा रामं धर्मज्ञो धर्मकाझ्या ।।
स बाष्पकलया वाचा कलहंसस्यरो युवा । विललाप सभामध्ये जगहें च पुरोहितम् ।।
चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ।।
कथं दशरथाजातो भवेद्राज्यापहारकः । राज्यं चाहं च रामस्य धर्म वक्तुमिहाईसि ॥
ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः । लब्धुमर्हति काकुलथो राज्यं दशरथो यथा ॥
अनार्यजुष्टमस्वयं कुर्या पापमहं यदि । इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ।।
यद्धि मात्रा कृतं पापं नाहं तदपि रोचये । इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥