पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह । गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ।।
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । अब्रवीत् प्राञ्जलिवाक्यं गुहो गहनगोचरः ॥
दाशास्त्वानुगमिष्यन्ति धन्विनः सुसमाहिताः । अहं त्वानुगमिष्यामि राजपुत्र महायशः ॥
कश्चिम दुष्टो व्रजसि रामस्यालिष्टकर्मणः । इयं ते महती सेना शङ्कां जनयतीव मे ।।
तमेवमभिभाषन्तमाकाश इव निर्मलः । भरतः लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥
मा भूत् स कालो यन् कष्टं न मां शङ्कितुमर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः॥९
तं निवर्तयितुं यामि काफुलथं वनवासिनम् । बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ १०
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् । पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्पितः ।। ११
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ १२
शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३
एवं संभाषमाणस्य गुहस्य भरतं तदा । बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ।। १४
संनिवेश्य स तां सेनां गुहेन परितोषितः । शत्रुप्रेन सह श्रीमाशयनं पुनरागमन् ।। १५
रामचिन्तामयः शोको भरतस्य महात्मनः । उपस्थितो हनहस्य धर्मप्रेक्षस्य तादृशः ।। १६
अन्तर्दाहेन दहनः संतापयति राधवम् । वनदाहाभिसंतप्तं गूढोऽगिरिव पादपम् ।।
प्रसृतः' सर्वगात्रेभ्यः स्वेदं शोकाग्निसंभवम् । यथा सूर्याशुसंतप्तो हिमवान् प्रस्तृतो हिमम् ।। १८
ध्याननिदरशैलेन विनिःश्वसितधातुना ! देन्यपादपसकेन शोकायासाधिशृङ्गिणा ।। १९
प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना । आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥
विनिःश्वसन वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः ।
शमं न लेभे हृदयज्वरादितो नरर्षभो यूथहतो यथर्षभः ॥
२१
गुहेन साध भरतः समागतो महानुभावः सजनः समाहितः ।
सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रज प्रति ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे गुहसमागमो नाम पञ्चाशीतितमः सर्गः षडशीतितमः सर्गः गुवाक्यम्

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय गुहो गहनगोचरः।