पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवतितमः सर्गः २५३

ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुमिः।। १८
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः। तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ १९
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुन्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ।।
सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् । मैत्रे मुहूर्त प्रययौ प्रयागवनमुत्तमम् ॥ २१
आश्वासयित्वा च चमू महात्मा निवेशयित्वा च यथोपजोषम ।
द्रष्टुं भरद्वाजमृषिप्रवर्यमृत्विग्वृतः सन्' भरतः प्रतस्थे ।।
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षपण्डं महद्वनं विप्रवरस्य रम्यम् ॥ २३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्थिशतिसहमिकाया महितायाम् अयोध्याकाण्ड गङ्गातरण नाम एकोननवतितमः सर्गः नवतितमः सर्गः भरद्वाजाश्रमनिवासः

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ।।
पदयामेव हि धर्मज्ञो न्यस्नशम्पपरिच्छदः । वसानो वामसी भौमे पुरोधाय पुरोधसम ।।
ततः मदर्शने नभ्य भरद्वाजस्य राघवः । मन्त्रिणरतानवस्थाप्य जगामानुपुरोहितम् ।।
वसिष्ठमथ दृप्दैव भरद्वाजो महातपाः । संचचालासनात्तूर्ण शिष्यानय॑मिति ब्रुवन् ।।
समागम्य वसिष्टेन भरतेनाभिवादितः । अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥
ताभ्यामध्ये च पाद्यं च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच धर्मशः पप्रच्छ कुशलं कुले॥६
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न गजानमुदाहरत् ।।
वसिष्ठो भरतश्चेनं पप्रच्छतुरनामयम् । शरीरेऽमिषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥
तथेति तत् प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ ९
किमिहागमने कार्य तव राज्यं प्रशासतः । एतदाचक्ष्व मे सर्व न हि मे शुध्यते मनः ।।
सुषुवे यममित्रघ्नं कौसल्यानन्दवर्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रत्राजितो वनम् ।। ११
नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ।। १२
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। १३
एवमुक्तो भरद्वाज भरतः प्रत्युवाच ह । पर्यश्रुनयनो दुःखाद्वाचा समजमानया ॥ १४
हतोऽस्मि यदि मामेवं भगवामपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। १५