पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

कच्चित्ते सफला वेदाः कचित्ते सफलाः क्रियाः। कविते सफला दाराः कचित्ते सफलं श्रुतम् ।।७२
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघष । आयुष्या च यशस्था च धर्मकामार्थसंहिता ॥ ७३
यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः । तां वृत्तिं वर्तसे कविद्या च सत्पथगा शुभा ॥७४
कच्चित् स्वादुकृतं भोज्यमेको नानासि राघव । कबिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥ ७५
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ।
अवाप्य कृरूनां वसुधां यथावदिवरच्युतः स्वर्गमुपैति विद्वान् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे कश्चित्सगों नाम शततमः सर्गः एकाधिकशततमः सर्गः पितृदिष्टान्तश्रवणम्

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ । ज्येष्ठे पुत्रे स्थिते राजेन् कनीयान भवेन्नृपः।।२
ससमृद्धां मया सार्धमयोभ्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥३
राजानं मानुषं प्राहुर्देवत्वे संमतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुपम् ॥
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यों गतो राजा यायजूकः सतां मतः॥५
निष्क्रान्तमात्रे भवति सहसोते सलक्ष्मणे । दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगान ॥
उत्तिष्ठ पुरुषव्याघ क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुभवांश्चैव पितुः प्रियः ।।
त्वामेव शोस्तव दर्शनेप्सुस्त्वय्येव सत्तामनिवर्त्य बुद्धिम् ।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरबस्तमितः पिता ते ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे पितृदिष्टान्तश्रवणं नाम एकाधिकशततमः सर्गः