पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

धिकशततमः सर्गः २७३

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह॥
तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।।
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शिताः । रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥
स तु संज्ञा पुनर्लब्ध्वा नेत्राभ्यामसमुत्सृजन् । उपाक्रमत काकुत्स्थः कृपणं बहु भाषितुम् ॥ ६
स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसहितम् ॥ ७
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ८
किं नु तस्य मया कार्य दुजीतेन महात्मनः । यो मृतो मम शोकन मया चापि न संस्कृतः ॥९
अहो भरत सिद्धार्थो येन राजा त्वयानघ । शत्रुनेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ १०
निष्प्रधानामनेकानां नरेन्द्रेण विनाकृताम । निवृत्तवनवासोऽपि नायोभ्यां गन्तुमुत्सहे ॥ ११
समाप्तवनवासं मामयोध्यायां परंतप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ १२
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह मान्त्वयन । वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्॥१३
एवमुक्त्वा स भग्नं भार्यामभ्येत्य राघवः । उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् १४
सीते मृतस्ते श्वशुरः पित्रा होनोऽसि लक्ष्मण । भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ १५
ततो बहुगुणं तेषां बाप्पो नेत्रप्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ १६
ततस्ते भ्रातर: मर्वे भृशमावास्य राघवम । अब्रुवञ्जगतीभर्तुः क्रियतामुदकं पितुः ॥
सा मीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम । नेत्राभ्यामश्रुपूर्णाभ्यां न शशार्कभितुं पतिम् ॥१८
सान्त्वयित्वा तु तां रामो रुदन्ती जनकात्मजाम । उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ १९
आनयेगुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥
सीता पुरस्ताबजतु त्वमेनामभितो ब्रज । अहं पश्वामिष्यामि गतिर्थोपा सुदारुणा ॥ २१
ततो नित्यानुगस्तेषां विदितात्मा महामतिः । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २२
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम । अवातारयदालम्व्य नदी मन्दाकिनी शिवाम् ॥ २३
ते सुतीर्था ततः कृच्छादुपागम्य यशस्विनः । नदीं मन्दाकिनी रम्या सदा पुष्पितकाननाम ॥ २४
शीघ्रस्रोतसमासाद्य तीर्थ शिवमकर्दमम् । सिपिचुस्तूदकं राज्ञे ततैतत्ते भवत्विति ॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन वचनमब्रवीत् ॥ २६
एतत्तं राजशार्दूल विमलं तोयमक्षयम । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।।
ततो मन्दाकिनीनोरात् प्रत्युत्तीर्य स राघवः । पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ।। २८
ऐड्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य रामः सुदुःखार्तो रुदन वचनमब्रवीत् ॥ २९
इदं भुक्ष्व महागज प्रीतो यदशना वयम् । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ३०
वतस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटान । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् । ३१
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥