पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ श्रीमवाल्मीकिरामायणे अयोध्याकाण्टे

तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद्गिरौ । भ्रातृणां सह वैदेह्या सिंहानामिव नर्दताम् ॥ ३३
महाबलानां रुदतां कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्द जस्ता भरतसैनिकाः ॥ ३४
अनुवंश्चापि रामेण भरतः संगतो ध्रुवम् । तेषामेव महाशब्दः शोचतां पितरं मृतम् ॥ ३५
अथ वासान् परित्यज्य ते सर्वेऽभिमुखाः स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥३६
हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ।। ३७
अधिरोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ ३८
भातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम् । ययुर्बहुविधैर्यानैः खुरनेमिस्वनाफुलैः ॥ ३९
सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता । मुमोच तुमुलं शब्दं चौरिवाभ्रसमागमे ।।
तेन वित्रासिता नागाः करेणुपरिवारिताः । आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः
वराहवृकसाश्च महिषाः सर्पवानराः । व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ।।
रथाजसाहा नत्यूहा हंसाः कारण्डवाः प्लवाः। तथा पुंस्कोकिलाः क्रौचा विसंज्ञा भेजिरे दिशः ॥४३
तेन शब्देन वित्रस्तैराकाशं पक्षिभिवृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥
ततस्तं पुरुषव्याघ्रं यशस्विनमकल्मषम् । आसीनं स्थण्डिले रामं ददर्श सहसा जनः ।।
विगर्हमाणः कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो राम बाध्यपूर्णमुखोऽभवत् ॥ ४६
तानरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् । पर्यष्वजत धर्मज्ञः पितृवन्मातृव सः॥ ४७
स तत्र कांश्चित् परिषस्वजे नरामराश्च केचित्तु तमभ्यवादयन् ।
चकार सर्वान् सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्मजः ॥
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वनः ।
गुहा गिरीणां च दिशश्च संततं मृदङ्ग घोषप्रतिमः प्रशुश्रुवे ॥ ४९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे निवापदानं नाम दूधिकशततमः सर्गः द्वधिकशततमः सर्गः मातृदर्शनम्

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षितः ॥
राजपल्यश्च गच्छन्त्यो मन्दं मन्दाकिनी प्रति । ददृशुस्तत्र वचीर्थ रामलक्ष्मणसेवितम् ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामनवीदीना याधान्या राजयोषितः ॥
इदं तेषामनाथानां लिष्टमलिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥