पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाधिकशततमः सर्गः २७७

न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननी बाल्यात्वं विगर्हितुमर्हसि ॥ १७
कामकारो महाप्रज्ञ गुरूणां सर्वदानघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।।
१८
वयमस्य यथा लोके संख्याताः सौम्य साधुभिः । भार्याः पुत्राश्च शिष्याश्च त्वमपि ज्ञातुमर्हसि ॥१९
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ २०
यावत् पितरि धर्मज्ञे गौरवं लोकसत्कृते । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। २१
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। २३
एवं कृत्वा महाराजो विभाग लोकसंनिधौ । व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २४
स च प्रमाण धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २५
चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मनी ॥ २६
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमण्यहम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे रामभरतसंवादो नाम चतुरधिकशततमः सर्गः पञ्चाधिकशततमः सर्गः रामवाक्यम्

ततः पुरुषसिंहानां घृतानां तैः सुहृद्णैः । शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्धृताः । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।।
तूष्णीं ते समुपासीना न कश्चित् किंचिदब्रवीत् । भरतस्तु सुहन्मध्ये रामं वचनमब्रवीत् ।।
सान्त्यिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुइक्ष्व राज्यमकण्टकम् ॥
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे । दुरावार त्वदन्येन राज्यखण्डमिदं महन् ।
गति खर इवाश्वस्य ताय॑स्येव पतत्रिणः । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।
सुजीवं नित्यशस्तस्य यः परेरुपजीव्यते । राम तेन तु दुर्जीवं यः परानुपजीवति ।।