पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

भगीरथात् ककुरस्थस्तु काकुत्स्था येन विश्रुताः । ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥ २७
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादः सौदास इत्येवं प्रथितो भुवि ।।
कल्माषपादपुत्रोऽभूच्छणस्त्विति विश्रुतः । यस्तु तवीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २९
शक्षणस्य च पुत्रोऽभूकछूरः श्रीमान सुदर्शनः । सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ।। ३०
शीघ्रगस्य मकः पुत्रो मरोः पुत्रः प्रशुश्रुकः । प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ ३१
अम्बरीषस्य पुत्रोऽभूनहुषः सत्यविक्रमः । नहुषस्य च नाभागः पुत्रः परमधार्मिकः ।।
अजश्च सुब्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैव धर्मात्मा राजा दशरथः सुतः ।। ३३
यो जित्वा वसुधां कृत्स्नां दिवं शासति स प्रभुः । तस्य ज्येष्वेऽसि दायादो राम इत्यभिविश्रुतः॥३४
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप । इक्ष्वाकूणां हि सर्वेषां राजा भवनि पूर्वजः ॥
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरनामनुशाधि मेदिनी प्रभूतराष्ट्रां पितृवन्महायशः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे इक्ष्वाकुवंशकीर्तनं नाम दशाधिकशततमः सर्गः एकादशाधिकशततमः सर्गः भरतानुशासनम्

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ।।
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः । आचार्यश्चैव काकुत्स्थ पिता माता च राघव ।।
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते ।।
सोऽहं ते पितुराचार्यस्तव चैव परंतप । मम त्वं वचनं कुर्वनातिवर्तेः सतां गतिम् ।।
इमा हि ते परिषदः श्रेणयश्च द्विजातयः । एषु तात चरन् धर्म नातिवर्तेः सतां गतिम् ।।
वृद्धाया धर्मशीलाया मातु हस्यवर्तितुम् । अस्यास्तु वचनं कुर्वनातिवर्तेः सतां गतिम् ।।
भरतस्य वचः कुर्वन याचमानस्य राघव । आत्मानं नातिवर्तेस्त्वं सत्यधर्मपरायण ॥
एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः॥
यन्मातापितरौ वृत्तं तनये कुरतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥
यथाशक्ति प्रदानेन स्नापनाच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्धनेन च ॥