पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः

अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् । यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ।।
कैकेय्यास्तु सुसंपन्नं क्षिप्रमथैव लक्ष्मण । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।।
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । अवेदानी सकामा सा या माता मम मध्यमा ।।
परस्पर्शातु वैदेह्या' न दुःखतरमस्ति मे । पितुर्वियोगात् सौमित्रे स्वराज्यहरणात्तथा ॥
इति ब्रुवति काकुत्स्थे वाष्पशोकपरिप्लुते । अब्रवीलक्ष्मणः क्रुद्धो रद्धो नाग एव श्वसन् ॥
अनाथ श्व भूतानां नाथरत्वं वासवोपमः । मया प्रेष्येण काकुत्स्थ किमर्थ परितप्यसे ।।
शरेण निहतस्याध मया कुद्धेन रक्षसः ।। विराधस्य गतासोहि मही पास्यति शोणितम् ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे प्रमोक्ष्यामि बज्री वामिवाचले ॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान महोरसि ।
व्यपनयतु तनोश्च जीवितं पततु ततः स महीं विधूर्णितः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे विराधसंरोधो नाम द्वितीयः सर्गः

तृतीयः सर्गः विराधप्रहारः

अथोवाच पुनर्वाक्यं विराधः पूरयन वनम् । आत्मानं पृच्छते बेतं की युवां क गमिष्यथः ॥ १
तमुवाच ततो रामो राक्षसं ज्वलिताननम् ! पृच्छन्तं सुमहानेजा इक्ष्वाकुफुलमात्मनः ।।
क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ ! त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् । ३
तमुवाच विराधस्तु रामं सत्यपराक्रमम् । हन्त वक्ष्यामि ते राजनिबोध मम राघव ॥
पुत्रः किल जवस्याहं मम माता शतदा । विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेणावध्यता लेकेऽच्छेद्याभेद्यत्वमेव च ॥ ६
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेथां न वां जीवितमाददे ।।
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः । राक्षसं विकृताकारं विराधं पापचेतसम् ।।
क्षुद्र धिक् त्वां तु हीनाथ मृत्युमन्वेषसे ध्रुवम् । रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ।। ९
ततः सज्यं धनुः कृत्वा रामः सुनिशिताशरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघान ह॥ १०