पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३१८ श्रीमहाल्मीकिरामायणे अरण्यकाण्डे त्रयोदशः सर्गः पञ्चवटीगमनम्

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां संप्राप्तौ सह सीतया ।।
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ।।
एषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ।। ३
ययैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामनुगच्छती ।।
एषा हि प्रकृतिः स्त्रीणामासष्टे रघुनन्दन । समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च ।।
शतहदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ।।
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ।।
अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेया चानया राम वत्स्यसि त्वमरिंदम ॥
एवमुक्तः स मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृर्षि दीप्तमिवानलम् ।।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः । गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ।।
किं तु व्यादिश मे देशं सोदकं बहुकाननम् । यत्राश्रमपदं कृत्वा बसेयं निरतः सुखम् ॥ ११
ततोऽनवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः । ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः॥ १२
इतो द्वियोजने तात बहुमूलफलोदकः । देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ।। १३
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह । रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ।। १४
कालोऽयं गतभूयिष्ये यः कालस्तव राघव । समयो यो नरन्द्रेण कृतो दशरथेन ते ।। १५
तीर्णप्रतिज्ञः काकुत्थं सुखं राज्ये निवत्स्यसि । धन्यस्ते जनको राम स राजा रघुनन्दन ॥१६