पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ श्रीमहाल्मीकिरामायणे अरण्यकाण्डे

पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम् । सुस्तम्भां मस्करैर्दीधैः कृतवंशां सुशोभनाम् ॥ २१
शमीशाखाभिरास्तीर्णा' दृढपाशावपाशिताम् । कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ।।२२
समीकृततलां रम्यां चकार लघुविक्रमः । निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ २३
स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा । स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥२४
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि । दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५
स तं दृष्टा कृतं सौम्यमाश्रमं सह सीतया । राघवः पर्णशालायां हर्षमाहारयद् भृशम् ॥ २६
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा । अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ।। २७
प्रीतोऽस्मि ते महत् कर्म त्वया कृतमिदं प्रभो । प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥२८
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ २९
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनम् । तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ३०
कंचित् कालं स धर्मात्मा सीतया लक्ष्मणेन च । अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥ ३१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां सहितायाम् अरण्यकाण्डे पञ्चवटीपर्णशाला नाम पञ्चदशः सर्ग: षोडशः सर्गः हेमन्तवर्णनम्

वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरव्द्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १
स कदाचित् प्रभातायां शर्वर्या रघुनन्दनः । प्रययावभिषेकार्थ रम्यां गोदावरीं नदीम् ।। २
प्रहः कलशहस्तरतं सीतया सह वीर्यवान् । पृष्टतोऽनुत्रजन् भ्राता सौमित्रिरिदमब्रवीत् ॥ ३
अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद । अलंकृत इवाभाति येन संवत्सरः शुभः ।। ४
नीहारपरुषो लोकः पृथिवी सस्यशालिनी । जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५
नवाप्रयणपूजाभिरभ्यर्च्य पितृदेवताः । कृताप्रयणका काले सन्तो विगतकल्मषाः ॥ ६
प्राज्यकामा जनपदाः संपन्नतरगोरसाः। विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥ ७
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ।।

१. आस्तीर्थ च.

२. समीकृतबलां छ. ३. शमीत्यादि विक्रम इत्यन्तम् नास्ति ४.चकार लघुविक्रमः ख, झ, ञ. ५. इतः पूर्वं-- स सीतया लक्ष्मणेन पक्षिराजा जटायुषा न्यवसत् पञ्चवट्यां वै पूज्यमानो महर्षिभिः ।। --इति ग.