पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः सर्गः ३२५

प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ।।
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना । शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ १२
जटी तापसरूपेण सभार्यः शरचापधृत् । आगतस्त्वमिमं देशं कथं राक्षससेवितम् ।। १३
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि । एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः ॥ १४
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे । अनृतं न हि रामस्य कदाचिदपि संमतम् ।।
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च आसोद्दशरथो नाम राजा त्रिदशविक्रमः ॥ १६
तस्याहमप्रजः पुत्रो रामो नाम जनैः श्रुतः । भ्राताय लक्ष्मणो नाम यवीयान मामनुव्रतः ॥ १७
इयं भार्या च वैदेही मम सीतेति विश्रुता । नियोगानु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।।
धर्मार्थ धर्मकाडी च वनं वस्तुमिहागतः । त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ॥ १९
न हि तावन्मनोनाङ्गी राक्षसी प्रतिभासि मे । इह या किं निमित्तं त्वमागता बेहि तत्त्वतः ॥
मानवीद्वचनं श्रुत्वा राक्षसी मदनार्दिना । श्रूयतां राम वक्ष्यामि तत्त्वार्थ वचनं मम ।। २१
अहं शुर्पणखा नाम राक्षसी कामरूपिणी । अरण्यं विचरामीदमेका सर्वभयंकरा ॥
रावणो नाम मे भ्राना वलीयान् राक्षसेश्वरः । वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः॥ २३
प्रपद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ २४
प्रख्यातायौं च रणे भ्रातरौ खरदूपणौ । तानहं सतिक्रान्ता राम त्वापूर्वदर्शनात् ।।
ममुपेनास्मि भावेन भनारे पुरुपोत्तमम् । अहं प्रभावसंपन्ना स्वच्छन्दयलगामिनी।। २६
चिराय भव मे भर्ना सीतया किं करिष्यसि । विकृता च विरूपा च न चेयं सदशी तव ।।
अहमेवानुरूपा ते भार्यारूपेण पश्य माम् । इमां विरूपामसती कराला निर्णतोदरीम् ॥
अनेन ते मह भ्रात्रा भक्षयिष्यामि मानुषीम । नतः पर्वतशृङ्गाणि वनानि विविधानि च ॥ २९
पश्यन सह मया कान्त दण्डकान् विचरिष्यसि । इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ॥३०
दं वचनमारेभे वक्तुं वाक्यविशारदः ।।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकाया संहितायाम् अरण्यकाण्ड शूर्पणस्वाभावाविस्करण नाम सप्तदशः सर्गः