पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशः सर्गः. ३२९

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ।।
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे । ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ ९
तिष्ठलैवात्र संतुष्टा नोपावर्तितुमर्हथ । यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मानाः शूलपाणयः' ।
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे प्राणानद्यारमाभिहतो युधि ।
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योधुमाहवे ॥ १३
पहि बाहुप्रयुक्तैनः परिधैः शूलपटिशैः । प्राणांस्त्यक्ष्यसि वीयं च धनुश्च करपीडितम ॥
इत्येवमुक्त्वा संक्रुद्धा राक्षसास्ते चतुर्दश । उद्यतायुधनिमिंशा राममेवाभिदुद्रुवुः ॥
अभिपत्य ततो वेगान् पृष्ठतस्ते निशाचराः।परिघान् पटिशान शूलान निग्लिंशान हेमभूषितान ।।१६
चिक्षिपुस्तानि शुलानि राघवं प्रति दुर्जयम् । तानि शूलानि काफुत्स्थः समस्तानि चतुर्दश ।।
तावद्भिरेब चिच्छेद शरैः काञ्चनभूषणैः । ततः पश्चान्महातेजा नाराचान मूर्यसंनिभान ।।
जमाह परमक्रुद्धश्चतुर्दश शिलाशितान् । गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान ॥ १९
मुमोच राघवो बाणान् वनानिव शतक्रतुः । रुक्मपुत्राश्च विशिग्वा दीप्ता हेमविभूषिताः ।।
ने भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः । विनिष्पेतुम्तदा भूमौ वल्मीकादिष पन्नगाः ॥ २१
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः । निपेतुः शोणिताङ्गा विकृता विगतासवः ॥
नान दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमृञ्छिता । परिचस्ता पुनस्तत्र व्यमृजद्भरवस्त्रनान् ।। २३
मा नदन्ती महानादं जबाच्छर्पणवा पुनः । उपगम्य खरं सा तु किंचित् संशुष्कशोणिता ।।
पपान पुनरेवानी सनिर्यासेव सल्लकी । भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः ॥
सस्वरं मुमुचे बाष्पं विषण्णवदना तदा।
निपातितान दृश्य रणे तु राक्षसान प्रधाविता शूर्पणखा पुनस्ततः ।
वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा॥
२६

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहमिकायां सहितायाम् अरण्यकाण्डे चतुर्दशरक्षोवधो नाम विंशः सर्गः