पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति

केन रम्यं जनस्थानं हतं मम परासुना । को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति ।। ४
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तं वैश्रवणेनापि न यमेन न विष्णुना ॥ ५
कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ।। ६
दहेयमपि संक्रुद्धस्तेजसादित्यपावकौ । वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात्संदिग्धया वाचा रावणं याचतेऽभयम् ॥ ८
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः । स विस्रब्धोऽब्रवीद्वाक्यमसंदिग्धमकम्पनः ।। ९
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा । रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः॥ १०
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः । हतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२
स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह । उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ १३
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः ।। १४
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् । दिव्यास्त्रगुणसंपन्नः पुरंदरसमो युधि ।। १५
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः । कनीयाँल्लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ १६
स तेन सह संयुक्तः पावकेनानिलो यथा । श्रीमान् राजवरस्तेन जनस्थानं निपातितम् ॥ १७
नैव देवा महात्मानो नात्र कार्या विचारणा । शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः ॥ १८
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् । येन येन च गच्छन्ति राक्षसा भयकर्शिताः॥ १९
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ २०
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् । जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ २१
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः । शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ २२
असाध्यः कुपितो रामो विक्रमेण महायशाः । आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥ २३
सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ।। २४
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ।। २५
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः । शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ।। २६
न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि । रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ २७
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तं ममैकमनाः शृणु ।। २८
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ २९
नैव देवी न गन्धर्थी नाप्सरा नापि दानवी । तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥ ३०