पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

तस्यापहर भायां त्वं प्रमथ्य तु महावने । स तया रहितः कामी रामो हास्यति जीवितम् ॥ ३१
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ।। ३२
बाढं कल्यं गमिष्यामि होकः सारथिना सह । आनयिष्यामि वैदेहीमिमां सृष्टो महापुरीम् ।। ३३
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ।। ३४
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् । संचार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३५
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् । मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ।। ३६
तं स्वयं पूजयित्वा तु आसनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। ३७
कश्चिन् सुकुशलं राजँल्लोकानां राक्षसेश्वर । आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ।। ३८
एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। ३९
आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा । जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ।। ४०
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे । राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ ४१
आख्याता केन सीता सा मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति निन्दितः ।। ४२
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति ।। ४३
प्रोत्साहयति कश्च त्वां स हि शत्रुरसंशयः । आशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥ ४४
कर्मणा तेन केनासि कापथं प्रतिपादितः । सुखसुप्तस्य ते राजन् प्रहतं केन मूर्धनि ।। ४५
विशुद्धवंशाभिजनाग्रहन्तस्तेजोमदः संस्थितदोर्विषाणः ।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ।। ४६
असौ रणान्तःस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ।। ४७
चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे ।
न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ।। ४८
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ ४९
एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरी लङ्कां विवेश च गृहोत्तमम् ।। ५०
इत्यार्षे श्रीमद्रामायणे काल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रावणखरवृत्तान्तोपलम्भो नाम एकत्रिंशः सर्ग: