पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः सर्गः
शूर्पणखोद्यमः
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १
दूषणं च खरं चैव हतं त्रिशिगरसा सह । दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।। २
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ।। ३
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ।। ४
आसीनं सूर्यसंकाशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ।। ५
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे शूरं व्यात्ताननमिवान्तम् ।। ६
देवासुरविमर्देषु वनाशनिकृतव्रणम् । ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ॥ ७
विशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् । विशालवक्षसं वीरं राजलक्षणशोभितम् ॥ ७
स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् । सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ ८
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे । अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ ९
आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ।। १०
क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।। ११
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ।। १२
तक्षकस्य प्रियां भार्यां पराजिन्य जहार यः । कैलामपर्वतं गत्वा विजित्य नरवाहनम् ॥ १३
विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ १४
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् । चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ ।। १५
निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ १६
पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः ।। १७
अभयं यस्य संग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ १७
हविर्धानेषु यः सोममुपहन्ति महाबलः । आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ।।
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम् ।। १८
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् । तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।। १९
आसने सूपविष्टं च कालकालमिवोद्यतम् । राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ।। २०
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् । अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ २१
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता ।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ।। २२
इत्याद्ये श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे शूर्पणखोद्यमो नाम द्वात्रिंशः सर्गः