पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः । कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ॥ २३
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः । तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ॥ २४
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि । रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ।। २५
क्रियतां निर्विशङ्केन वचनं मम रावण । विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ॥ २६
सीता सर्वानवचाङ्गी भार्यार्थं राक्षसेश्वर ।।
निशम्य रामेण शरैरजिह्मगैर्हताञ्जनस्थानगतान्निशाचरान् ।
खरं च बुद्ध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ।। २७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे सीताहरणोपदेशो नाम चतुस्त्रिंश: सर्ग:

पञ्चत्रिंशः सर्गः
मारीचाश्रमपुनर्गमनम्
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम सः ॥ १
सत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च संप्रधार्य बलाबलम् ।। २
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालामुपागमत् ॥ ३
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः । सूतं संचोदयामास रथः संयोज्यतामिति ।। ४
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ५
काञ्चनं रथमास्थाय कामगं रत्नभूषितम्। पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ।। ६
मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ।। ७
स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः । स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनकुण्डलः ॥ ८
विशद्भुजो दशग्रीवः दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः । विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥ १०
सशैलं सागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ ११
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः । विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम् ।। १२
कदल्यटविसंबाधं नालिकेरोपशोभितम् । सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ।। १३
अत्यन्तनियताहारैः शोभितं परमर्षिभिः । नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः ॥ १४