पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १८
त्वां तु निःसंशयं सीता दृष्टा तु मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ।। १९
ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ।। २०
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते । विस्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना । २१
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः । शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव ह ॥ २२
ओष्ठौ परिलिहञ्शुष्कौ नेत्रैरनिमिषैरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ २३
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः।
कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ।। २४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम्
अरण्यकाण्डे सहायैषणा नाम षट्त्रिंशः मर्गः

सप्तत्रिंशः सर्गः
अप्रियपथ्यवचनम्
तच्छुत्वा राक्षसेन्द्रम्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १
सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ।। २
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ।। ३
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ४
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न भवेद्व्यसनं महत् ।। ५
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ ६
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः । आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ।। ७
न च पित्रा परित्यक्तो नामर्यादः कथंचन । न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥ ८
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः । न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ।। ९
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ १०
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च । हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् || ११
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः । अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ।। १२
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः । राजा सर्वस्य लोकस्य देवानां मघवानिव॥ १३