पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

कथं त्वं तस्य वैदेही रक्षितां स्वेन तेजसा । इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः॥ १४
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे । रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ।। १५
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् । चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥ १६
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः । नात्यासादयितुं तात रामान्तकमिहार्हसि॥ १७
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी । प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ।। १९
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ २०
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप । दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥ २१
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ २२
स सर्वैः सचिवैः सार्धं विभीषणपुरोगमैः । मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ।। २३
दोषाणां च गुणानां च संप्रधार्य बलाबलम् । आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः॥ २४
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।
इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशचरेश्वर ॥ २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे अप्रियपध्यवचनं नाम सप्तत्रिंशः सर्गः

अष्टात्रिंशः सर्गः
रामास्त्रमहिमा
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥ १
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः ।। २
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् । विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः।। ३
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् । असौ रक्षतु मां रामः पर्वकाले समाहितः। ४
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर । इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ।। ५
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् । बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः ।। ६
कामं तु मम यत्सैन्यं मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् ॥ ७
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्तव यथेप्सितम् । इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत् ॥ ८