पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिचत्वारिंशः सर्गः
लक्ष्मणशङ्काप्रतिसमाधानम्
सा त संप्रेक्ष्य सुश्रोणी कुसुमान्यवचिन्वती । हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।। १
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ।। २
तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ।। ३
शङ्कमानस्तु तं दृष्ट्रा लक्ष्मणो राममब्रवीत् । तमेवैतमहं मन्ये मारीचं राक्षसं मृगम् ।। ४
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने। अनेन निहता राम राजानः कामरूपिणा ।। ५
अस्य मायाविदो मायामृगरूपमिदं कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥ ६
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ।। ७
एवं ब्रुवाणं सौमित्रिं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा चर्मणा हृतचेतना ।। ८
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ९
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः । मृगाश्चरन्ति महिताः सृमराश्चमरास्तथा ॥ १०
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा । विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः ॥ ११
न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा । तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ।। १२
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः । द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः ।। १३
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना । मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ १४
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विग्मयं जनयिष्यति ।। १५
समाप्तवनवासानां राज्यस्थानां च नः पुनः । अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ १६
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ १७
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः । अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ १८
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ।। २०
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा । तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ।। २१
एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् । बभूव राघवस्यापि मनो विस्मयमागतम् ॥ २२