पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः । निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ॥ ३४
अपि त्वां सह रामेण पश्येयं पुनरागतः । लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा ॥ ३५
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता । गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ॥ ३६
आबन्धिष्येऽथ वा त्यक्ष्ये विषमे देहमात्मनः । पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।। ३७
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे । इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ॥ ३८
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ।
तामार्तरूपां विमना रुदन्ती सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तुस्तं भ्रातरं किंचिदुवाच सीता ।। ३९
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ ४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सीतापारुष्यं नाम पश्चचत्वारिंशः सर्गः

षट्चत्वारिंशः सर्गः रावणभिक्षुसत्कारः

तथा परुषमुक्तस्तु कुपितो राघवानुजः । स विकाङ्क्षन् भृशं रामं प्रतस्थे न चिरादिव ॥ १
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेही परिव्राजकरूपधृत् ।। २
श्लक्ष्णकाषायसंवीतः शिखी छन्त्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३
परिव्राजकरूपेण वैदेहीमन्वपद्यत । तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ ४
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः । तामपश्यत्ततो बाल रामपत्नीं यशस्विनीम् ॥ ५
रोहिणी शशिना हीनां ग्रहवद्भृशदारुणः । तमुग्रतेजःकर्माणं जनस्थानरुहा द्रुमाः ।। ६
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।। ७
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी । रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ॥ ८
उपतस्थे च वैदेही भिक्षुरूपेण रावणः । अभव्यो भन्यरूपेण भर्तारमनुशोचतीम् ।। ९
अभ्यवर्तत वैदेही चित्रामिव शनैश्चरः । स पापो भव्यरूपेण तृणैः कूप इवावृतः ।। १०
अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् । शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ॥ ११