पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

कैकेयी मम भर्तारमित्युवाच धृतं वचः । तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ।। १४
भरताय प्रदातव्यमिदं राज्यमकण्टकम् । त्वया हि खलु वस्तव्यं नव वर्षाणि पश्च च ॥ १५‌
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् । तथेत्युक्त्वा‌ च तां रामः ‌कैकेयीमकुतोभयः ।। १६
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः । दद्यान्न प्रतिगृहीयात् सत्यं ब्रूयान्न चानृतम् ।। १७
एतद्ब्राह्मण रामस्य व्रतं धृतमनुत्तमम् । तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् । १८
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा । स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।। १९
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह । जटी तापसरूपेण मया सह सहानुजः॥ २०
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः । ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः॥ २१
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा । समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ २२
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । रुरून् गोधान् वराहांश्च हत्वादायामिषान् बहून् ॥ २३
स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ।। २४
एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः । प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ।। २५
येन वित्रासिता लोकाः सदेवासुरमानुषाः । अहं स रावणो नाम सीते रक्षोगणेश्वरः ।। २६
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवामिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २७
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । सर्वासामेव भद्रं ते ममाग्रमहिषी भव ।। २८
लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि । २९
तत्र सीते मया सार्धं वनेषु विहरिष्यसि । न चास्य वनवासस्य स्पृहयिष्यसि भामिनि ॥ ३०
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि ।। ३१
रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ।। ३२
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ ३३
सर्वलक्षणसंपन्नं न्यग्रोधपरिमण्डलम् । सत्यसन्धं महाभागमहं राममनुव्रता ।। ३४
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशमहं राममनुव्रता ।। ३५
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्तिं महात्मानमहं राममनुत्रता ।। ३६
त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३७
पादपान् काञ्चनान्नूनं बहून् पश्यसि मन्दभाक् । राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावणा ॥ ३८
क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरखिनः । आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३९
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥ ४०
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् । राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि ।। ४१